Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दौपदी चरित्रम् यावद्रात्रौ शय्यायां सुप्तस्तावत्तस्या ज्वलत्खदिरांगारतुल्यं देहस्पर्श विज्ञाय स तस्यां विरागवान् बभूव. ततस्तां सुकुमारिकां तथैव सुप्तां तत्र मुक्त्वा निजगृहे स समायातः. अथ प्रातरुत्थिता सा सुकुमारिका निजं खामिनं गतं विज्ञाय भृशं रुदितुं लग्ना. ततस्तस्या मातापितृभ्यां दासीभ्यस्तद्रुदनकारणं विज्ञाय, तत्रागत्य पुत्र्यै कथितं, भो पुत्रि! त्वं रुदनं मा कुरु ? कर्मणामग्रे रंकस्य वा राज्ञोऽपि सामर्थ्यं नास्ति, यतः-कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥१॥ प्रचलति यदि मेरुः शीततां याति वाह्नि-रुदयति यदि भानुः पश्चिमायां दिशायां ॥ विकसति यदि | पद्मं पर्वताग्रे शिलायां । तदपि न चलतीयं भाविनी कर्मरेखा ॥२॥ यथा धेनुसहस्रेषु । वत्सो विदति मातरं ॥ एवं पूर्वकृतं कर्म । कर्तारमनुधावति ॥ ३॥ हे वरसे ! पूर्वभवे त्वया कस्यापि विरहः कृतोऽ- | भविष्यत, तेन तदशुभं कर्मात्र भवे उदयमागतं विज्ञायते. अथ त्वं धैर्य धारयख ? सर्वमपि समचीनं | भविष्यति. एवं तां निजतनयामाश्वास्य स सागरदत्तो जिनदत्तांतिके समेत्य तमुपालंभयामास, भो जिनदत्त ! त्वदीयपुत्रेण सागरेणैतन्न वरं कृतं, यतोऽसौ. मदीयां तनयां परिणीय तां च परिहायत्र त्वदी PARRORROR-GORRAS | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20