________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम्
यावद्रात्रौ शय्यायां सुप्तस्तावत्तस्या ज्वलत्खदिरांगारतुल्यं देहस्पर्श विज्ञाय स तस्यां विरागवान् बभूव. ततस्तां सुकुमारिकां तथैव सुप्तां तत्र मुक्त्वा निजगृहे स समायातः. अथ प्रातरुत्थिता सा सुकुमारिका निजं खामिनं गतं विज्ञाय भृशं रुदितुं लग्ना. ततस्तस्या मातापितृभ्यां दासीभ्यस्तद्रुदनकारणं विज्ञाय, तत्रागत्य पुत्र्यै कथितं, भो पुत्रि! त्वं रुदनं मा कुरु ? कर्मणामग्रे रंकस्य वा राज्ञोऽपि सामर्थ्यं नास्ति, यतः-कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं ॥१॥ प्रचलति यदि मेरुः शीततां याति वाह्नि-रुदयति यदि भानुः पश्चिमायां दिशायां ॥ विकसति यदि | पद्मं पर्वताग्रे शिलायां । तदपि न चलतीयं भाविनी कर्मरेखा ॥२॥ यथा धेनुसहस्रेषु । वत्सो विदति मातरं ॥ एवं पूर्वकृतं कर्म । कर्तारमनुधावति ॥ ३॥ हे वरसे ! पूर्वभवे त्वया कस्यापि विरहः कृतोऽ- | भविष्यत, तेन तदशुभं कर्मात्र भवे उदयमागतं विज्ञायते. अथ त्वं धैर्य धारयख ? सर्वमपि समचीनं | भविष्यति. एवं तां निजतनयामाश्वास्य स सागरदत्तो जिनदत्तांतिके समेत्य तमुपालंभयामास, भो जिनदत्त ! त्वदीयपुत्रेण सागरेणैतन्न वरं कृतं, यतोऽसौ. मदीयां तनयां परिणीय तां च परिहायत्र त्वदी
PARRORROR-GORRAS
|
For Private and Personal Use Only