Book Title: Draupadi Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दौपदी चरित्रम्
॥१४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तःपुरे समानिनाय ततः स पद्मोत्तरो राजा तां द्रौपदीं जगौ भो द्रौपदि ! त्वं मया सह भोगान् भुंक्ष्व ? ममेदं सकलमपि राज्यं तवैवास्ति, मनोवांछितवस्त्राभूषणादि गृहाण, सर्वास्वपि मदीयराज्ञीषु त्वं पट्टराज्ञी भव ? अहं तु तव किंकर इव सर्वं मनोऽभिलाषं पूरयिष्यामि इत्यादि मिष्टवचनान्युक्त्वा भूरिप्रकारैस्तस्याः शीलखंडनार्थं तेन प्रयत्नः कृतः परं द्रौपद्या मनो मनागपि न चलितं गतः - स्वाधीनेऽपि कलत्रे । नीचः परदारलंपटो भवति ॥ संपूर्णेऽपि तडागे । काकः कुंभोदकं पिबति ॥ १ ॥ अथ तत्रस्थिता द्रौपदी स्खशीलं रक्षती सर्वदा पंचपरमेष्टिनमस्कारपरावर्तनपरा षष्टाष्टमादितपः कर्तुं प्रवृत्ता. इततः पुरे द्रौपदीमनालोक्य ते पंचापि पांडवाश्चिंतातुरा अभितो गवेषयामासुः परं कुत्रापि तस्याः शुद्धिर्न लब्धा. ततस्ते श्रीकृष्णवासुदेवपार्श्वे गत्त्वा द्रौपदीगमनवृत्तांतं कथायामासुः तत् श्रुत्वा हास्यपरेण कृष्णेनोक्तं यूयं महासुभटाः पंचैकामपि निजपत्नों रक्षितुं नालं जाताः ? पांडवैरुक्तं भो कृष्ण ! अधुना हास्येनालं, स्वं समर्थो वासुदेवोऽसि, अतः केनाप्युपायेन तस्याः शुद्धिं लभस्ख ? ततः कृष्णेनापि तस्याः | शुद्धिप्राप्त्यर्थं बहव उपायाः कृताः, परं समस्तेऽपि भारते क्षेत्रे कुलापि तस्याः शुद्धिर्न लब्धा. इतोऽन्ये
For Private and Personal Use Only
मूल
॥१४॥

Page Navigation
1 ... 14 15 16 17 18 19 20