Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 200
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ९९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एव अभियुक्त इति गर्भः, अथ व्यतिरेकतः समाधानोपायमाह - पुनः स्त्रीणां सर्वासत्कार्यनिबन्धनभूतानां वशं तत्परतन्त्रतारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिवति, अतो बुद्धवचने चित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेनान्योपायासम्भवाद्वान्तं परित्यक्तं यद्विषयजम्बालं न प्रत्यापिवति न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते. १. पुढविमिति — तथा साधुः पृथ्वीं सचेतनादिरूपां न खनति स्वयं, न च खानयति परैः, एकग्रहणे तज्जातीयानामपि ग्रहणात्खनन्तमन्यं न समनुजानातीत्येवं सर्वत्र वेदितव्यम्. तथा यः साधुः सचित्तं पानीयं स्वयं न पिवति, न च पाययति परान, पुढविन खणे न खणावए सीओदगं न पिए न पीआवए । अगणि सत्यं जहा सुनिसिअं तं न जले नं जलावए जे स भिक्खू २. तथाभिः षड्जीवनिकायधातकः किंवत् ? यथा सुनिशितमुज्ज्वालितं शस्त्रं जीवघातकं भवेत्, ततस्तमत्रिं यः स्वयं न ज्वालयति, परैर्न ज्वालयति, स इत्थम्भूतो भिक्षुर्भवेत्, ननु षड्जीवनिकायादिष्वध्ययनेषु पूर्वोक्तेषु सर्वत्रायमेवार्थः कथितः, किमर्थ पुनरपि सभिक्षुनामाध्ययनेऽपि स एवार्थः प्ररूप्यते ? पुनरुक्तिदोषप्रसद्गो जायते. अत्रोत्तरमाह - षड्जीवनिकायपालनापर १ नानुजानातीति पाठान्तरम् । For Private and Personal Use Only अध्य. १० ॥ ९९ ॥

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240