Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ १०४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनर्भिक्षुर्देहवासं सदा त्यजति ममतात्यागेनैतं प्रत्यक्षेणोपलभ्यमानं किम्भूतं देहवासम् ? अशुचि, शुक्रशोणितमयत्वात्, पुनः किम्भूतं देहवासम् ? अशाश्वतं प्रतिक्षणं क्षीयमाणत्वात् किम्भूतो भिक्षुः ? नित्यहिते मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा अत्यन्तं सुस्थितः, इति ब्रवीमीति पूर्ववत्. २१. इति श्रीदशवैकालिकशब्दार्थवृत्तौ सभिक्षुनामकं दशममध्ययनं समाप्तम् १०. श्रीरस्तु इहेति - व्याख्यातं सभिक्षुनामकं दशममध्ययनम्, अथ चूडाख्यमारभ्यते, अस्य चायमभिसम्बन्धः - पूर्वाध्ययने भिक्षुगुणा अर्थ प्रथम चूलिका प्रारभ्यते
इह खलु भो पव्वइएणं उप्पन्न दुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेोहिणा अणोहाइएणं चैव हयरस्तिगयंकुसपोयपडगाभूआई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवति. उक्ताः, स च भिक्षुरेवंभूतोऽपि कदाचित्कर्मवशात्कर्मवलाच्च सीदेत्तत्तस्य भिक्षोः स्थिरीकरणं कर्तव्यं, तदर्थं चूडाद्वयं कथ्यतेइह खलु भोः प्रत्रजितेन साधुना, इह खलु प्रवचने निश्चयेन भो इति आमन्त्रणे, अमूनि वक्ष्यमाणान्यष्टादश स्थानानि सम्य| क्प्रकारेण सम्प्रत्युपेक्षितव्यानि सुष्वालोचनीयानि भवन्तीत्युक्तिः किम्भूतान्यष्टादशस्थानानि ? हयरश्मिगजाङ्कुषपोतपताकाभूतानि, अश्वखलिनगजाङ्कुशवोहित्यसितपटतुल्यानि, अयं परमार्थः यथा हयादीनामुन्मार्गप्रवृत्तिं वाञ्छतां रश्म्यादयो निय१ अथ चूलिके, इति पाठान्तरम् ।
For Private and Personal Use Only
चूलि० १.
॥ १०४ ॥

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240