Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 211
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनहेतवस्तथैतान्यपि संयमादुन्मार्गप्रवृत्तिं वाञ्छतां भव्यजीवानामपि नियमनहेतवः, यतश्चैवमतः सम्यक्प्रत्युपेक्षितव्यानि भवन्ति किम्भूतेन साधुना ? उत्पन्नदुःखेन, सञ्जतशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन, पुनः किम्भूतेन ? संयमे पूर्ववर्णित स्वरू पेऽरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमान्निर्विण्णभावेनेत्यर्थः पुनः किम्भूतेन ? अवधानोत्प्रेक्षिणा, अवधानमपसरणं संयमादुत्प्राबल्येन प्रेक्षितुं शीलं यस्य स तेनावधानोत्प्रेक्षिणोत्प्रब्रजितुकामेनेत्यर्थः पुनः किम्भूतेन ? अनवधावितेनैव, अनुत्प्रव्रजितेनैव तमिति तत्र प्रथमं स्थानकमाह - तद्यथेत्युदाहरणे, हं भो दुःखमायां दुष्प्रजीविन इति, हं भो शिष्यामन्त्रणे, दुःखमायामधमकालरूपायां कालदोषादेव दुःखेन कृच्छ्रेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, तं जहा- हं भो दुस्समाई दुप्पजीवी १. लहुसगा इत्तरिआ गिहिणं कामभोगा २. भुज्जो अ सायबहुलानरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदार भोगरहितेन विटम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति प्रथमं स्थानम्. १. अथ द्वितीयस्थानमाह - तथा लघव इत्वरा गृहिणां कामभोगाः, दुःखमायामिति वर्तते, सन्तोऽपि लघवा स्तुच्छाः प्रकृत्यैव तुषमुष्टिवदसारा इत्वरा अल्पकाला गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषया विपा ककटवश्च न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति द्वितीयं स्थानम्. अथ तृतीयस्थानमाह - तथा भूयश्च शातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः सम्प्रत्युपेक्षितव्य १ विडम्बनेति युक्तः पाठः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240