Book Title: Vedang Prakash
Author(s): Dayanand Sarasvati Swami
Publisher: Dayanand Sarasvati Swami

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १३० उगादिकोषः ॥ वहिहाधाञ्भ्यश्छन्दसि ॥ २२१ ॥ वक्षाः । हासाः। धासाः । २२१ ॥ इणश्चासिः ॥ २२२ ॥ प्रयाः ॥ २२२ ॥ मिथुनेऽसिः ॥ २२३ ॥ सुपयाः । सुयशाः ॥ २२३॥ नञि हन एह च ॥ २२४ ॥ अनेहाः ॥ २२४ ॥ विधानो वेध च ॥ २२५ ॥ वेधाः ।। २२५ ॥ नुवो घुट् च ॥ २२६ ॥ नोधाः ॥ २२६ ॥ गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वञ्च ॥ २२७ ॥ सुतपाः । जातवेदाः ॥ २२७ ॥ Acharya Shri Kailassagarsuri Gyanmandir ( २२१ ) सुट् । वहति भारमिति वक्षाः । अनड्वान वा । ह नो भवतीति हासाः । चन्द्रमा वा । दधातीति धासाः । पर्वतो वा ॥ ( २२२) एति प्राप्नोति श्रयाः । अग्निर्वा । स्वरादिपाठादव्ययम् । अत एव दीर्घादिरासिः प्रत्ययः ॥ ( २२३ ) यत्रोपसी धातुक्रियया संयुक्तस्तन्मिथुनम् । तत्र सति येभ्यो `धातुभ्योऽसुन् विधीयते तेभ्यः सर्वेभ्योऽसिरेव स्यात् । स्वरभेदार्थं सूत्रमिदम् । सुपथाः । सुतपाः । सुपेशाः । न्योजाः । सुजवाः । सुस्रोताः । इत्यादयो द्रष्टव्याः ॥ ( २२४ ) न हन्यते विच्छिन्नो न भवतोत्यनेहाः । कालो वा । अनेहौ । अनेहसः ॥ ( २२५ ) विशेषेण दधातीति वेधाः | वेधसौ | वेधसः | वेधसम् । विद्वान् । विधाता | जगदीश्वरो वा ॥ ( २२६ ) नौति स्तौति नूयते स्तूयते वा स नोधाः । ऋषिवा ॥ ( २२० ) गतिकारकोपपदाद्वातोरसिः प्रत्ययो भवति तस्मिन् सति गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वम् । उत्तरपदप्रकृतिस्वरस्यापवादः । सुतपाः ! सुतेजाः । सुवक्षाः । कारके । उग्रतेजाः । हिरण्यरेताः । जातवेदा: । सर्ववेदाः । विश्ववेदाः । वृद्धेभ्यः शृणोतीति वृद्धश्रवाः । विष्टर आसने शृणोतीति विष्टरश्रवाः । इत्यादि ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326