Book Title: Sanmati Prakaran
Author(s): Dhirajlal D Mehta
Publisher: Jain Dharm Prasaran Trust Surat

View full book text
Previous | Next

Page 5
________________ अहं तथैव बालोऽस्मि, गीतार्थगुरवस्तथा । वात्सल्यवारिसंपूर्णाः, क्षमाशीला दयालवः ॥११॥ ग्रन्थोऽयं दुर्गमोऽस्तीति, मत्त्वा कृतं विवेचनम् । सर्वैरिदं सदा पाढ्यं, यावच्चन्द्रदिवाकरम् ॥१२॥ आराध्यपादपूज्यश्री, अभयदेवसूरिभिः । मनोहरा कृता वृत्तिः, तत्त्वबोधविधायिनी ॥१३॥ विशेषार्थः कृतः पूज्य-जयसुन्दरसूरिभिः । ग्रन्थप्रवेशमार्गोऽयं, मृदुकृतो महोत्तमैः ॥१४॥ विदुषा सुखलालेन, संक्षिप्तार्थः प्रकाशितः । तथा बेचरदासेन, सोऽर्थो संमृज्य शोभितः ॥१५॥ परिपक्वीकृतो मार्गः इत्याद्यनेककोविदः । पादसञ्चारमात्रेण, गतिरस्तु ममात्र तु ॥१६॥ अनेकशास्त्रकारैर्हि, स्वशास्त्रेषु यथोचितः । साक्षीकृतो ह्ययं ग्रन्थः, तद्भूतोऽयं प्रभावकः ॥१७॥ मोहं त्यक्त्वा धृतिं धृत्वा, ऽध्येतव्योऽयं महाग्रन्थः । कल्याणमस्तु सर्वेषामिच्छामीति शुभाशिषा ॥१८॥ aw Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 434