Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
अर्थप्रकाशवृत्तिसहितं
श्रियोपेतः संभवः श्रीसंभव इति, स चासौ जगत्पतिश्चेति तथा तस्य तृतीयतीर्थङ्करस्येत्यर्थः । ' ताः' इति एकरूपा अपि भगवद्वदनारविन्दविनिर्गताः सकलसभा लोकतत्तद्भाषापरिणमनशीलत्वेनानेकरूपाः सत्योऽशक्यनिर्वचनाश्चतुर्गतिकसंसारभवभ्रमणजनितासातसन्ततिच्छेदच्छेकिलाः वाचो वाण्यः जयन्ति सर्वोत्कर्षेण वर्तन्त इति संटंकः । कदा ? 'देशनासमये' इति देशनाया धर्मोपदेशस्य समयः कालः तदा । किंलक्षणा वाचः ? 'विश्वभव्यजनाराम कुल्यातुल्या' इति भव्याः - सिद्धिगमनार्हाः ते च ते जनाश्च भव्यजनाः, विश्वे च ते भव्यजनाश्च विश्वभव्यजनाः, विश्वशब्दः सर्वार्थः, त एवारामाः वनविशेषाः विश्वभव्यजनारामाः, कुल्या- सारणिस्तस्यास्तुल्याः समानाः कुल्यातुल्याः, विश्वभव्यजनारामेषु कुल्यातुल्याः विश्वभव्यजनारामकुल्यातुल्याः । यद्वा विश्वानां जगतां भव्यजनाः विश्वभव्यजना इति । यथा कुल्या आरामद्रुमाणां पुष्पफलादिसमृद्धिहेतुर्भवति, तथा भगवद्वाचोपि भव्यजनानां ततद्बोधिबीजादिसम्पतिहेतवो भवन्तीति तासां तत्तुल्यतानिरूपणमतिरमणीयमिति ॥ ५ ॥
अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः ।
दद्यादमन्दमानन्दं, भगवानभिनन्दनः ॥ ६ ॥ अनेकान्तेत्यादि । अभिनन्दनो भगवान् - अर्हन् 'आनन्द' प्रमोदं 'दद्यात् ' ददावित्यर्थः । वः इत्युपस्कारः । कथम्भूतमानंदम् 'अमन्दं' अस्तोकं एतावतानन्तचतुष्टयान्तर्गतं सौख्यमित्यर्थः, तस्यैव परमार्थवृत्त्या अमन्दत्वविशेषण्णालिङ्गितत्वात् संसारिकसुखस्व च मन्दत्वेनैव विचारारूढत्वादिति । किंविशिष्टः अभिनन्दनः ! 'अने'कान्तमताम्भोधिसमुल्लासन चन्द्रमाः' अनेके अन्ताः सदसत्त्वनित्या

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26