Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 21
________________ १४ सकलाईत्तोत्रम् । कृत् 'व: युष्माकं 'चतुर्थपुरुषार्थश्रीविलास वितनोतु' पुरुषस्वार्थ:प्रयोजनं पुरुषार्थः, चतुर्थश्वासौ पुरुषार्थश्च चतुर्थपुरुषार्थः मोक्षः, स एव मेदोपचारातस्य वा श्रीलक्ष्मीस्तस्या विलासो-भोगस्तं, अन च धर्मार्थकामरूपपुरुषार्थत्रयापेक्षया - मोक्षस्य चतुर्थपुरुषार्थत्वमिति । किंलक्षणोऽरनाथः ! 'चतुर्थारनभोरविः' चतुर्थश्वासावरश्च चतुर्थारः स एव नभो-गगनं तत्र रविः-सूर्यः, यथा रविणा नभः प्रकाश्यतेअलकियते च तथा भगवताऽपि चतुर्थारः प्रकाश्यतेऽलकियते चेति ॥ २० ॥ '- सुरा-ऽसुर-नराधीशमयूरनववारिदम् । कर्मदून्मूलने हस्तिमल्लं मल्लिमभिष्टुमः ॥ २१॥ सुरासुरेत्यादि । वयं मल्लिं एकोनविंशं तीर्थेशं 'अभिष्टुमः' स्तुतिविषयं कुर्मः । किंलक्षणं मल्लिम् ? 'सुरासुरनराधीशमयूरनववारिदं सुरासुरनराणां अधीशाः प्रभवः त एव मयूराः-शिखण्डिनस्तेषां नूतनजलधरम् । पुनः किंविशिष्टं मल्लिम् ? 'कर्मन्मूलने हस्तिमलं'. कर्माण्येव द्रुवः-पादपास्तेषामुन्मूलनं-उत्खेटनं तत्र हस्तिमलं-ऐरावणम् ॥ २१ ॥ - जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । ... मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥ जगदित्यादि । वयं मुनिसुव्रतनाथस्य विंशतितमजिनस्य 'देशनावचन' देशनाया-धर्मोपदेशस्य वचनं-वचः 'स्तुमः' ईड्महे । कथम्भूतं देशनावचनम् ? 'जगन्महामोहनिद्राप्रत्यूषसमयोपमम्' मोहः-अज्ञानं स एव तत्त्वज्ञानाच्छादकत्वेन निदेव निद्रा मोहनिद्रा,

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26