Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ सकलाहत्तोत्रम् । यति-नाशं नयतीति तथा । कथम्मूतः अरिष्टनेमिः ! 'बदुवंशसमु. देन्दुः यदूनां वंशोऽन्वयः स एव महत्त्वेन नानापुरुषरशसंश्रयत्वेन च समुद्रः सागरस्तत्र इन्दुश्चन्द्रः । यथा हि कविसमये विधुः समुद्रे समुत्पन्नः, एवं भगवान् यदुवंश इति । पुनः किरूपः अरिष्टनेमिः ? 'कर्मकक्षहुताशनः' कर्माणि-ज्ञानावरणादीनि तान्येक कक्ष-शुष्कवनं तत्र हुताशनः कृशानुः ॥ २४ ॥ कमठे धरणेन्द्रे च, खोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः ॥२५॥ कमठेत्यादि । पार्श्वनाथस्त्रयोविंशस्तीर्थनाथः वः' युष्माकं 'श्रिये' संपदे 'अस्तु' भवतु । कथम्भूतः पार्श्वनाथः ? 'प्रभु' समर्थः खामीति यावत् । पुनः कथम्भूतः पार्श्वनाथः ? 'तुल्यमनोवृत्तिः' मनसश्चित्तस्य वृत्तिर्वर्तनं-व्यापारः मनोवृत्तिः, तुल्या-सदृशी मनोवृत्तियस्य स तथा रागद्वेषानाश्लिष्टचित्तवृत्तिरित्यर्थः । कमिन् ! 'कमठे' मगवतः प्रतिकूले दैत्यविशेषे । 'च' पुनः कमिन् ? 'धरणेन्द्रे' खामिनः परममक्ते नागराजे । किं कुर्वति कमठे ? कुर्वति । किं : कर्मरजःपुंजोडापनाचनेकपकारदारुणोपसर्गसर्गम् । कथम्भूतं कर्म: 'खोचितं' खस्योचितं-योग्यं तथाविधाधमस्य तथाविधस्यैव कर्मण उचितत्वात् । धरणेन्द्रे च किं कुर्वति? कुर्वति वितन्वति । किं ? कर्म, तथाविधोपसर्गसौत्सारणनिसर्गम् । किंलक्षणं कर्म : खोचितं, तथाविधानां महतां तथाविधस्यैव कर्मण उचितत्वादिति कोऽर्थः । प्रतिकूलोचितकर्मकर्तरि कमठे, अनुकूलोचितकर्मकर्तरि व

Loading...

Page Navigation
1 ... 21 22 23 24 25 26