Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
अर्थप्रकाशवृत्तिसहितं
११
कारकं, अविश्वोपकारकं विश्वोपकारकं भवति स्मेति विश्वोपकारकी - भूतं, तीर्थकृतः कर्म तीर्थकृत्कर्म, तादृशं च तत् तीर्थकृत्कर्म च विश्वोपकारकीभूततीर्थ कृत्कर्म, सकलजगद्वत्सलतीर्थकर नामकर्म तस्य निर्मितिर्निर्माणं यस्य स तथा । पुनः कथम्भूतो वासुपूज्यः 'पूज्यः' पूजनीयः । कैः ? 'सुरासुरनरैः' सुराध असुराश्च नराश्व सुरासुरनरास्तैः । यतः प्रथमविशेषणविशिष्टस्तत एव द्वैतीयीक विशिष्टोऽपि तादृशस्य तत्पूज्यत्वाव्यभिचारादिति ॥ १४ ॥
विमलस्वामिनो वाचः, कतकक्षोदसोदराः । जयन्ति त्रिजगच्चेतोजलनैर्मल्यहेतवः ॥ १५ ॥ विमलेत्यादि । विमलखामिनस्त्रयोदशतीर्थकृतः 'वाचः ' सरखत्यः 'जयन्ति' सर्वोत्कर्षेण वर्तन्त इति सम्बन्धः । किंलक्षणा वाचः ? 'कतकक्षोदसोदराः ' कतकस्य कतकद्रुमफलस्य क्षोदचूर्णः तस्य सोदरा लक्षणया तुल्या इत्यर्थः । पुनः किंलक्षणा वाचः 2 'त्रिजगच्चेतोजलनैर्मल्यहेतवः' त्रयाणां जगतां समाहारस्त्रिजगत्, तस्य चेतांसि - मनांसि तान्येव जलानि - सलिलानि तेषां नैर्मल्यं अनाविलत्वं, तस्य हेतवः कारणानि । यथा हि कतकचूर्णेन जलं निर्मलीक्रियते एवं भगवद्वाग्भिरपि विश्वत्रितयजनमनांसि विमलीक्रियन्त इति ततौयं तासामतिरमणीयमिति ॥ १५ ॥
स्वयम्भूरमणस्पर्द्धा, करुणारसवारिणा । अनन्तजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥ स्वयम्भूरमणेत्यादि । अनंतजित् चतुर्दशो जिनः 'वः' युष्माकं 'सुखश्रियं' सौख्यसम्पदं 'प्रयच्छतु' ददातु । कथम्भूतं सुखश्रियम् ? 'अनन्त' नास्ति अन्तो विनाशो यस्याः सा तथा तां

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26