Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
१२
सकलाईत्स्तोत्रम् ।
.
सकलकर्मक्षयप्रादुर्भवामित्यर्थः । कथम्भूतः अनन्तजित् ! 'स्वयम्भू. रमणस्पर्दी' खयम्भूरमणं सकलजलनिधिपर्यन्तवर्तिमहासमुद्रं सर्द्धितुं शीलमस्येति खयम्भूरमणस्पर्धी । केन कृत्वा ? 'करुणारसवारिणा' परदुःखप्रहाणानुकूलचिन्तनं करुणा सैव रसः करुणारसः स एव वारि करुणारसवारि तेन करुणारसवारिणा "रसः खादे जले बीर्ये' इत्यनेकार्थे (हैम. द्विखरकाण्ड श्लो. ५९०) असंख्यातयोजनकोटिकोटिप्रमाणस्य खयम्भूरमणसमुद्रस्य यावान् पानीयराशिस्ततोऽपि भगवतः करुणारसोऽनन्तगुणस्ततस्तेन तत्स्पर्द्धित्वप्रतिपादनं नासमीक्षितकारिताकारणमिति ॥ १६ ॥
कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् ।
चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ १७॥ - कल्पद्रुमेत्यादि । वयं धर्मनाथं पञ्चदशं तीर्थकृतं 'उपास्महे' सेवामहे । कथम्भूतं धर्मनाथम् ? 'कल्पद्रुमसधर्माणं' कल्पद्रुमस्य मुरपादपस्य सधर्मा-सदृशः, कल्पद्रुमसधर्मा तं कल्पद्रुमसधर्माणम् । कुत्र ? 'इष्टप्राप्त?' अमीप्सितार्थावाप्तौ इष्टस्य प्राप्तिर्लब्धिखत्र । केषाम् ! 'शरीरिणां' तनुमताम् । पुनः किंलक्षणं धर्मनाथम् ! 'चतुर्धा धर्मदेष्टार'धर्म दिशति-प्ररूपयतीति धर्मदेष्य तं तथा । कथम् ? चतुर्धेति चतुर्भिः प्रकारैः दानशीलतपोभावनारूपैः दानादिचतुःप्रकारधर्मोपदेशकमित्यर्थः ॥ १७ ॥
सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिधुखः।
मृगलक्ष्मा तमाशान्यै, शान्तिनाथजिनोऽस्तुकः॥१८॥ सुधासोदरेत्यादि । शान्तिनाथजिनः षोडशस्तीर्थपतिः 'वः' युष्माकं 'तमाशान्त्यै' तमसः शान्तिः-शमनं तस्यै :अस्तु' भवतादि

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26