Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
अर्थप्रकाशवृत्तिसहितं १३ त्यन्वयः । किंलक्षणः शान्तिः ! 'मृगलक्ष्मा' मृगः-सारङ्गो लक्ष्म लाच्छनं यस्य स तथा । पुनः किरूपः शान्तिनाथजिनः ! 'सुधासो. दरवाज्योत्सानिर्मलीकृतदिङ्मुखः' सुधायाः सोदरा सुधासोदय, सा चासौ वाक् च सुधासोदरवाग, सैव ज्योत्स्ना-कौमुदी सुधासोदरवाग्ज्योत्सा, दिशां मुखानि दिमुखानि, अधवलानि धवलानिक्रियन्ते स इति धवलीकृतानि, सुधासोदरवाग्ज्योत्स्नया धवलीकृतानि प्रकाशितानि दिनुखानि येन स तथा । अत्र च तमाशब्द: मोहान्धकाररूपार्थद्वयेन व्याख्येयस्तथा च मृगलक्ष्मेति शब्दोऽपि श्रीशान्तिनाथविशेषणपीयूषपादपर्यायभावत्वेन च व्याख्येयः, खयमभ्यूह्यमन्यदिति ॥ १८॥ ..
श्रीकुन्थुनाथो भगवान् , सनाथोऽतिशयर्द्धिभिः।
सुरा-ऽसुर-नृनाथानामेकनाथोऽस्तु वः श्रिये ॥१९॥ - श्रीकुन्थुनाथो भगवानित्यादि । श्रीकुन्थुनाथः सप्तदशो भगवान्-जिनो 'व:' युष्माकं 'श्रिये' संपदे 'अस्तु' भवतु । किलक्षणः कुन्थुनाथः ? 'सनाथः' सहितः । कामिः ? 'अतिशयद्धिभिः। अतिशयानां अनन्यसाधारणाद्भुतरूपादीनां अतिशया एव वा ऋद्धयः सम्पदस्ताभिः । पुनः कथम्भूतः कुन्थुनाथः? 'एकनाथः' एक:अद्वितीयो नाथः-खामी एकनाथः, केषाम् ? 'सुरासुरनृनाथानां' सुराश्चासुराश्च नरश्च सुरासुरनरस्तेषां नाथा:-पतयः इन्द्रादयस्तेषां विश्वत्रितयपतिरित्यर्थः ॥ १९ ॥
अरनाथः स भगवाँश्चतुर्थारनभोरविः।
चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥ २० ॥ अरनाथेत्यादि । 'च' समुच्चयार्थः । 'अरनाथः' अरनामा तीर्थ

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26