Book Title: Saklarhat Stotram
Author(s): Nemvijay
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
. सकलाईत्स्तोत्रम् । तथा तयोः । पुनः कथम्भूतयोः? ईषद्बाप्पाईयोः ईषत् अल्पं बाष्पमश्रुजलं तेन आद्रे-सरसे स्निग्धे इति यावत् ईषद्वाष्पाट्टै तयोः । एवं कुत्र! 'जने' लोके । कथम्भूते ! 'कृतापराधेऽपि' कृतो विहितोऽपराधो मन्तुर्येन स तथा तस्मिन् , विहितापराधेऽपि जने दयया निश्चलतारयोः किंचिदश्रुजलेनायोः । श्रीवीरजिननेत्रयोर्भद्रं मङ्गलं भवतु इत्यर्थः ॥ २६ ॥
इति गुणविजयः श्रीहेमचन्द्रप्रभूणां
सुखमकृतकृतेरल्पासमर्थप्रकाशे । यदिह किमपि क्लुप्तं शुद्धबुद्धिप्रबुद्धे
रनुमतमनसूयैस्तत्प्रमाणप्रसिद्धम् ॥१॥ ॥ इति कलिकालसर्वज्ञविरुदधारकश्रीहेमचन्द्रसूरिविरचितचतुर्विंशतिश्रीजिननमस्काराणां अर्थप्रकाशः समाप्तः ॥

Page Navigation
1 ... 23 24 25 26