Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 364
________________ २९३ - नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एतेन व्यवहारेऽपि, स्थापनाऽनाग्रहो हतः। तत्रार्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ॥ १०७ ॥ नयामृत०-एतेनेति । एतेन-अनुपदोक्तयुक्तिकदम्बकेन सङ्ग्रहे स्थापनाव्यवस्थापनेन, व्यवहारे. ऽपि, स्थापनाया अनाग्रह:-अस्वीकारो, हतः-निरस्तः, केषाश्चिदाचार्याणाम्, यतस्तत्र-व्यवहारे, नाम्नापि-नामनिक्षेपेणापि, व्यवहर्तरि-व्यवहारमुपगच्छति, किमिदमर्धजरतीयम्- यदुत स्थापनाया न व्यवहार इति, नहीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसाङ्कर्यमित्येकमाद्रियमाणस्यापरं च परित्यजतः केवलं आहोपुरुषिकामात्रमेवेति ॥ १०७ ॥ ऋजुसूत्रेऽपि द्रव्यनिक्षेपं ये न स्वीकुर्वते तन्मतं निरूपयन्नाह ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । ___ व्याख्येया तैः कथं तत्र, द्रव्यावश्यकसूत्रगीः ॥ १०८ ॥ नयामृत-ऋजुसूत्रेऽपीति । स्पष्टम् , व्याख्याप्रकारश्च यद्यप्यत्र नव्यनये प्रागभिहित एव, तथापि कथमित्यनेन सम्प्रदायविरोधाद् बिभ्यतां साम्प्रदायिकानां तथा नास्थेति व्यज्यते ।। १०८ ॥ इति कदाग्रहोऽपीति पाठ एव । विवृणोति- एतेनेतीति । एतेनेत्यस्य विवरण- अनुपदोक्तयुक्तिकदम्बकेन सङ्घहे स्थापनाव्यवस्थापनेनेति । अनाग्रह इत्यस्य विवरणम्- अस्वीकार इति। हत इत्यस्य विवरणंनिरस्त इति । निरासहेतुपरतयोत्तरार्द्ध योजयति-यत इति । तत्रेत्यस्य विवरणं- व्यवहार इति । नाम्नाऽपीत्यस्य विवरण- नामनिक्षेपेणापीति, व्यवहर्तरीत्यस्य व्यवहारमुपगच्छतीति- सति सप्तमीयम्। अर्द्धजरतीयं कस्मादित्यपेक्षायामाहयदुतेति- यथा नाम्नो व्यवहारस्तथा स्थापनाया अपि व्यवहारः, तत्र नानो व्यवहार इति पूत्करोति, स्थापनाया न व्यवहार इति स्वीकरोति, एतदर्द्धजरतीयमित्यर्थः। स्थापनायां व्यवहारस्य दाय व्यवस्थापयति-नहीति- अस्य भवतीत्यनेनान्वयः। न भवतीति नहीति निषेधद्वयेन इन्द्रप्रतिमायामिन्द्र व्यवहारो भवत्येवेत्यवधारितम् । तादृशव्यवहारस्य भ्रान्तत्वान्न वस्तुसाधकत्वमित्यपि नास्तीत्याह-नवेति- इन्द्रप्रतिमायामिन्द्रव्यवहारो भवन्नपि भ्रान्त एवेत्यपि नैवेत्यर्थः, स्थापना नामादिष्वन्तभूतेति स्थापनाव्यवहारो नामादिव्यवहार एवेत्यपि नास्तीत्याह-नवेति- स्थापनाव्यवहारस्य नामादि. रूपो यः स्थापनायाः प्रतिरक्षः, तद्व्यवहारेण समं साङ्कर्यमपि न, किन्तु नामादिव्यवहारासङ्कीर्ण एव स्थापनाव्यवहार इत्यर्थः । इति एतस्मात् कारणात् । एकं नामादिव्यवहारम् । आद्रियमाणस्य स्वीकुर्वाणस्य । अपरं च स्थापनाव्यवहारं च। परित्यजतः अस्वीकुर्वतः परस्य । केवलं युक्तिरिक्तम् , पुरुषिकामात्रमिति- आश्चर्यकारिस्वपौरुषमात्रप्रकटनम् ॥१०॥ अष्टोत्तरशततमपद्यमवतारयति-ऋजुसूत्रेऽपीति- ऋजुसूत्रनयेऽपीत्यर्थः । ये नव्यतार्किकाः श्रीमन्तः सिद्धसेनदिवाकराः । तम्मतं नव्यानां मतम् । व्याख्यानस्य स्पष्टत्वादनादरणेऽपि प्रतीकं गृह्णाति-ऋजुसूत्रेऽपीति। पदार्थस्य स्पष्टत्वाद् व्याख्यानं नापेक्षितमित्याह- स्पष्टमिति । ननु " तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थतो मताः । सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥१८॥” इति पद्यव्याख्याने तार्किकानुसारिणस्त्वित्यादिना सिद्धसेनदिवाकरमतोपवर्णने 'जुसूत्रो यदि द्रव्यं नाभ्युपेयात् तथा उक्तम् “ उजुसूयस्स एगे अणुवउत्ते एगं दवावस्सयं पुहुत्ते णेच्छइ" [ ] इति सूत्रं विरुध्येत' इति सैद्धान्तिकाक्षेपस्य प्रतिविधानमित्थम्-' उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् ' इति ग्रन्थेन द्रव्यावश्यकसूत्रगी नव्यतार्किकमतानुसारिभियाख्यातैवेति व्याख्येया तैरित्युत्तरार्द्धसङ्गमनं कथमित्यपेक्षायामाह-व्याख्याप्रकारश्चेति - द्रव्यावश्यकसूत्रवचनप्रकारश्चेत्यर्थः । अत्र नयोपदेशवृत्तौ। कथमित्यनेन कथमिति वचनेन, अस्य 'व्यज्यते' इत्यनेन सम्बन्धः । तथा नास्था यथा नव्यानुसारिभिव्याख्यातं तथा म्याख्याने नादरः ॥१०८॥

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496