________________
२९३
-
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । एतेन व्यवहारेऽपि, स्थापनाऽनाग्रहो हतः।
तत्रार्धजरतीयं किं, नाम्नाऽपि व्यवहर्तरि ॥ १०७ ॥ नयामृत०-एतेनेति । एतेन-अनुपदोक्तयुक्तिकदम्बकेन सङ्ग्रहे स्थापनाव्यवस्थापनेन, व्यवहारे. ऽपि, स्थापनाया अनाग्रह:-अस्वीकारो, हतः-निरस्तः, केषाश्चिदाचार्याणाम्, यतस्तत्र-व्यवहारे, नाम्नापि-नामनिक्षेपेणापि, व्यवहर्तरि-व्यवहारमुपगच्छति, किमिदमर्धजरतीयम्- यदुत स्थापनाया न व्यवहार इति, नहीन्द्रप्रतिमायां नेन्द्रव्यवहारो भवति, नवा भवन्नपि भ्रान्त एव, नवा नामादिप्रतिपक्षव्यवहारसाङ्कर्यमित्येकमाद्रियमाणस्यापरं च परित्यजतः केवलं आहोपुरुषिकामात्रमेवेति ॥ १०७ ॥ ऋजुसूत्रेऽपि द्रव्यनिक्षेपं ये न स्वीकुर्वते तन्मतं निरूपयन्नाह
ऋजुसूत्रेऽपि ये द्रव्यनिक्षेपं प्रवदन्ति न । ___ व्याख्येया तैः कथं तत्र, द्रव्यावश्यकसूत्रगीः ॥ १०८ ॥ नयामृत-ऋजुसूत्रेऽपीति । स्पष्टम् , व्याख्याप्रकारश्च यद्यप्यत्र नव्यनये प्रागभिहित एव, तथापि कथमित्यनेन सम्प्रदायविरोधाद् बिभ्यतां साम्प्रदायिकानां तथा नास्थेति व्यज्यते ।। १०८ ॥ इति कदाग्रहोऽपीति पाठ एव । विवृणोति- एतेनेतीति । एतेनेत्यस्य विवरण- अनुपदोक्तयुक्तिकदम्बकेन सङ्घहे स्थापनाव्यवस्थापनेनेति । अनाग्रह इत्यस्य विवरणम्- अस्वीकार इति। हत इत्यस्य विवरणंनिरस्त इति । निरासहेतुपरतयोत्तरार्द्ध योजयति-यत इति । तत्रेत्यस्य विवरणं- व्यवहार इति । नाम्नाऽपीत्यस्य विवरण- नामनिक्षेपेणापीति, व्यवहर्तरीत्यस्य व्यवहारमुपगच्छतीति- सति सप्तमीयम्। अर्द्धजरतीयं कस्मादित्यपेक्षायामाहयदुतेति- यथा नाम्नो व्यवहारस्तथा स्थापनाया अपि व्यवहारः, तत्र नानो व्यवहार इति पूत्करोति, स्थापनाया न व्यवहार इति स्वीकरोति, एतदर्द्धजरतीयमित्यर्थः। स्थापनायां व्यवहारस्य दाय व्यवस्थापयति-नहीति- अस्य भवतीत्यनेनान्वयः। न भवतीति नहीति निषेधद्वयेन इन्द्रप्रतिमायामिन्द्र व्यवहारो भवत्येवेत्यवधारितम् । तादृशव्यवहारस्य भ्रान्तत्वान्न वस्तुसाधकत्वमित्यपि नास्तीत्याह-नवेति- इन्द्रप्रतिमायामिन्द्रव्यवहारो भवन्नपि भ्रान्त एवेत्यपि नैवेत्यर्थः, स्थापना नामादिष्वन्तभूतेति स्थापनाव्यवहारो नामादिव्यवहार एवेत्यपि नास्तीत्याह-नवेति- स्थापनाव्यवहारस्य नामादि. रूपो यः स्थापनायाः प्रतिरक्षः, तद्व्यवहारेण समं साङ्कर्यमपि न, किन्तु नामादिव्यवहारासङ्कीर्ण एव स्थापनाव्यवहार इत्यर्थः । इति एतस्मात् कारणात् । एकं नामादिव्यवहारम् । आद्रियमाणस्य स्वीकुर्वाणस्य । अपरं च स्थापनाव्यवहारं च। परित्यजतः अस्वीकुर्वतः परस्य । केवलं युक्तिरिक्तम् , पुरुषिकामात्रमिति- आश्चर्यकारिस्वपौरुषमात्रप्रकटनम् ॥१०॥
अष्टोत्तरशततमपद्यमवतारयति-ऋजुसूत्रेऽपीति- ऋजुसूत्रनयेऽपीत्यर्थः । ये नव्यतार्किकाः श्रीमन्तः सिद्धसेनदिवाकराः । तम्मतं नव्यानां मतम् । व्याख्यानस्य स्पष्टत्वादनादरणेऽपि प्रतीकं गृह्णाति-ऋजुसूत्रेऽपीति। पदार्थस्य स्पष्टत्वाद् व्याख्यानं नापेक्षितमित्याह- स्पष्टमिति । ननु " तार्किकाणां त्रयो भेदा आद्या द्रव्यार्थतो मताः । सैद्धान्तिकानां चत्वारः पर्यायार्थगताः परे ॥१८॥” इति पद्यव्याख्याने तार्किकानुसारिणस्त्वित्यादिना सिद्धसेनदिवाकरमतोपवर्णने 'जुसूत्रो यदि द्रव्यं नाभ्युपेयात् तथा उक्तम् “ उजुसूयस्स एगे अणुवउत्ते एगं दवावस्सयं पुहुत्ते णेच्छइ" [ ] इति सूत्रं विरुध्येत' इति सैद्धान्तिकाक्षेपस्य प्रतिविधानमित्थम्-' उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम् ' इति ग्रन्थेन द्रव्यावश्यकसूत्रगी नव्यतार्किकमतानुसारिभियाख्यातैवेति व्याख्येया तैरित्युत्तरार्द्धसङ्गमनं कथमित्यपेक्षायामाह-व्याख्याप्रकारश्चेति - द्रव्यावश्यकसूत्रवचनप्रकारश्चेत्यर्थः । अत्र नयोपदेशवृत्तौ। कथमित्यनेन कथमिति वचनेन, अस्य 'व्यज्यते' इत्यनेन सम्बन्धः । तथा नास्था यथा नव्यानुसारिभिव्याख्यातं तथा म्याख्याने नादरः ॥१०८॥