Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 431
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः । %3 सम्मतिवृत्तौ नामनिक्षेपावसरे भाषितं तत् शब्दा-ऽर्थयोनित्यसम्बन्धमात्रवादापेक्षया, " औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः " [जैमिनिसूत्र- '] इति तत्सूत्रे औत्पत्तिक इत्यस्य विपरीतलक्षणया नित्य इति व्याख्यानात्, पूर्वपूर्वसङ्केतापेक्षायामनवस्थानान्नित्यपदसम्बन्धाभ्युपगम एव, प्रवृत्तिमूलव्यहारायन्तशुद्धशास्त्रैदम्पर्यपालोचनायां तु तस्य नयसंयोगत्वमेव युक्तम् , अन्यथा शब्दानुशासनेऽपि स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येन नयसंयोगजत्वं न स्यात्, नयसंयोगजत्वे शब्दादीनां कथं न स्वसमयतुल्यत्वमिति चेत् ? मूढनयानां तेषां यथावद्विभागाकरणात् , अत एव यथावनयविभागचिकीर्षया " सिद्धिः स्याद्वादात्" [सिद्धहेम० १. १. २.] इति सूत्रमुपन्यस्य श्रीहेमसूरयः स्वोपज्ञशब्दानुः वसरे नाम-- स्थापना-द्रव्य-भावनिक्षेपभेदेन निक्षेपाश्चत्वारस्तत्र नामनिक्षेपनिरूपणावमरे । भाषितम् उक्तम् । तत् मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वकथनम्। शब्दा-ऽर्थयोर्नित्यसम्बन्धो मीमांसकसम्मत इत्यत्र जमिनिसूत्रव्याख्यानं प्रमाणयति- औत्पत्तिकस्त्विति-इतिशब्दः स्वरूपपरः । तत्सूत्रे मीमांसादर्शनप्रवर्तकजैमिनिमुनिप्रणीतसूत्रे । उत्पत्तिकृत औत्पत्तिक इति व्युत्पत्त्यौत्पत्तिकशब्दार्थ उत्पत्तिमान् अनित्य इति । यावत्, तथा च शब्दस्यार्थेनानित्यः सम्बन्ध इति स्यादत आह- औत्पत्तिक इत्यस्येति-औत्सत्तिक इत्येवंस्वरूपशब्दस्येत्यर्थः। विपरीतलक्षणया औत्पत्तिकविपरीते अनौत्पत्तिके लक्षणया। नन्वीश्वरानङ्गीकर्तृमीमांसकमते नित्यसङ्केतस्याभावेऽप्यनित्याधुनिकपुरुषसङ्केत एव शब्दा-ऽर्थयोः सम्बन्धोऽस्तु, तथा च न शब्दस्यार्थेन सह नित्यसम्बन्धसिद्धिरित्यत आह-पूर्वपूर्वेति- आधुनिकसंकेतस्य शब्दार्थसम्बन्धत्वे कस्यचित् पुंसो घटपदात् पटो बोद्धव्य इति सङ्केतस्यापि सम्भवेन घटपदस्य पटोऽपि शक्यार्थः स्यात् , तत्परिहाराय पूर्वपूर्वपुरुषसङ्केतापेक्ष एव सङ्केतः शब्दा-ऽर्थयोः सम्बन्ध इति वाच्यम् , तथा च पटे घटपदस्य सङ्केतो न पूर्वपूर्वसङ्केतापेक्ष इति न स सम्बन्धः, किन्तु घटे घटपदसङ्केतः पूर्वपूर्वपुरुषैरपि कृतस्तदपक्षो घटपदस्य घटे सङ्केतो घटपद-घटरूपार्थयोः सम्बन्ध इत्यनवस्था प्रसज्यत इति नित्यशक्तिलक्षणसम्बन्ध एव शब्दा-ऽर्थयोरुपेय इत्यर्थः । प्रवृत्तीति- लोके स्वर्गाद्यर्थ यागादौ या प्रवृत्तिस्तन्मूलव्यवहारादिपर्यन्तस्य शुद्धस्य जैमिनिशास्त्रेदम्पर्यस्य पर्यालोचनायांविचारणायां पुनर्मीमांसकमतस्य नयसंयोगजत्वमेव युक्तमित्यर्थः। अन्यथा उक्तपर्यालोचनायामपि मीमांसकमतस्य नयसंयोगजत्वानङ्गीकारे । शब्दानुशासनेऽपि अनुशिष्यन्ते प्रकृति-प्रत्ययादिविभागेन प्रतिपाद्यन्ते साधुशब्दा अनेनेति अनुशासनम् , शब्दानामनुशासनं शब्दानुशासनमिति व्युत्पत्त्या व्याकरणशास्त्रेऽपि, अस्य नयसंयोगजत्वमित्यनेनान्वयः। स्फोटविचार इति- स्फुटीभवत्यर्थोऽनेनेति स्फोटः, स च वर्णस्फोटः पदस्फोटो वाक्यस्फोट इति विधेति वचना त्रिविधो नित्यः शब्दस्वरूपस्तस्य विचारे । कथं शब्दानुशासने नयसंयोगजत्वानुपप्रत्तिरित्याकालानिवृत्त्यर्थमेव स्फोट. विचारे शब्दतन्मात्रसङ्ग्रहप्राधान्येनेत्युकम् , अस्ति च तत्र शब्दतन्मात्रसङ्ग्रहस्यैव प्राधान्यं स्फोटात्मकशब्दस्वरूपस्य परब्रह्मण उपगमाच्छन्दब्रह्मण एवार्थरूपेण विवर्तनादर्थमात्रस्य शब्दात्मकंब्रह्मस्वरूपत्वमित्येवं शब्दतन्मात्रसङप्रहप्राधान्यम् । अत्र शङ्कते- नयसंयोगत्वे इति । शब्दादीनामित्यत्र शब्दपदं शब्दानुशासनपरम् , आदिपदादलङ्कारादिशास्त्राणामुपग्रहः । स्वसमयेति - जैनाभिमतस्याद्वादराद्धान्तेत्यर्थः, यथा स्याद्वादराद्धान्ते नयसंयोगजत्वं तथा शब्दानु. शासनालङ्कारादिशास्त्राणामपीति स्याद्वादराद्धान्तस्य जैनसमयत्ववच्छन्दानुशासनादिशास्त्राणामपि जैनसमयत्वमापद्यतेत्यर्थः । समाधत्ते-मूढनयानामिति- अन्योऽन्यनिरपेक्षसामान्य-विशेषाद्यर्थप्राहकत्वान्मिथ्यानयानामित्यर्थः । तेषां शब्द-उलङ्कारादिशास्त्रणाम्। यथावद् विभागाकरणादिति- एतदपेक्षयेदमभिहितमेतदपेक्षया त्विदमुक्तमित्येवमपेक्षाभेदेन यनयविषयविभजन तस्याकरणान्न शब्दा-ऽलङ्कारादीनां नयसंयोगजत्वेऽपि स्वसमयतुल्यत्वमित्यर्थः । अत एव इत्यस्य 'आविश्चक्रुः' इत्यनेनान्वयः, श्रीहेमसूरय इत्यस्याप्याविश्चक्रुरित्यनेनान्वयः । स्वोपक्षेति- स्वनिर्मितेत्यर्थः, स्वपदेनात्र श्रीहेमसूरीणां प्रहणम् , स्वोपशशब्दानुशासनस्येत्यस्य दृढप्रामाण्यमित्यनेन सम्बन्धः । स्वसमयान्तर्भावेन जैनराद्धान्तान्त. विन, जैनराद्धान्तस्य निश्चितप्रामाण्यकत्वेन तदन्तर्भूतस्य श्रीहेमचन्द्ररिनिर्मितशब्दानुशासनस्यापि सुदृढं प्रामाण्यमिति ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496