Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
३६३ अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कस्मिश्च सम्यक्त्वमिति जिज्ञासायामाह
नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निवृतिः।
तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् ॥ १२३ ॥ नयामृत०-नास्तीत्यादि । नास्त्यात्मा इति चार्वाकमते, न नित्य इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साक्ष्यमते, न भोक्तेत्युपचरितभोक्तृत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षवलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तृणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः ॥ १२३ ॥
षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि।
मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते ॥१२४ ॥ नयामृत-पडेतदिति । एतेभ्यः-प्रागुक्तेभ्यः, विपरीतानि षट् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम्
“ अस्थि जिओ तह णिच्चो, कचा भुत्ता स पुनपावाणं । अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ ठाणा ॥" [
1 इति । तमोऽपगमचिजनुःक्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियो क्व नु दवीयसी दृश्यते ॥ ४ ॥ प्रसय सदसत्त्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न । गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ॥ ५ ॥ प्रमाण-नयसजता स्वसमयेऽप्यनेकान्तधीर्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता ।
कदाचन न बाधते स्वगुरुसम्प्रदायक्रम, समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६॥" इति । "दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां" इति पाठो युक्तः । समयनिष्णातैः जैनराद्धान्ताभिज्ञाननिपुणः ॥ १२२ ॥
त्रयोविंशत्युत्तरशततमपद्यमवतारयति-अथेति । विवृणोति-नास्तीत्यादीति । साथमते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह- यद्वेति । “निवृत्तिः" इत्यस्य स्थाने “निर्वृतिः" इति पाठो ज्ञेयः । निर्वृतिः किंस्वरूपेत्यपेक्षायामाह-सर्वदुःखेति + यज्वनां मीमांसकानाम् । तदुपायश्च नेति कस्य मते इत्यपेक्षयामाह- अस्ति मुक्तिरिति । तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह-सर्वभाषानामिति । वहिरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः ॥ [
] इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते । के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसुरय इति ॥ १२३ ॥
चतुर्विशत्युत्तरशततमपद्यं विवृणोति-षडेतदितीति । एतेभ्यः इत्यस्य विवरणं-प्रागुक्तभ्य इति । “सम्यकस्थानान्यपि" इत्यस्य स्थाने "सभ्यक्त्वस्थानान्यपि" इति भाव्यम् । भवन्तीति क्रियापदमाहृतम् । षद सम्यक्त्वस्थानानि विशिष्योग्लिखति-अस्त्यात्मेति । नित्य इत्यादावप्यात्मेत्यंनुषज्यते। “सामराज्य' इत्यस्य स्थाने "सामाज्य" इति पाठः । षट् सम्यक्त्वस्थानानीत्यत्र सिद्धान्तवचनसंवादं दर्शयति- तदिदमुक्तमिति । अत्थीति

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496