Book Title: Nayopdesh
Author(s): Vijaylavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 400
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः । 1 [ शक्यम्, यथात्रैवैकत्वमहोद्देशेन संमार्गविधानम् [ द्व ]दिह " तमेतम्० " [ पत्रइत्यादिविधौ न तावदरुणादिवाक्यवदेकविशिष्टक्रियाबोधकत्वम्, असंभवादनङ्गीकाराश्च, नापि " दधा जुहोति " इतिवत् कस्याश्चित् क्रियाया मेक विशेषणविधानम्, उक्तहेतोरेव, यज्ञ-दानादीन्युद्दिश्य विविदिषाफलसंबन्धविधाने एकत्वमहोद्देशेन संमार्गविधानवद् विविदिषाफलमुद्दिश्य यज्ञ दानादिविधाने च महोद्देशेनैकत्व संमार्गविधानवत् कथं न वाक्यभेदः ?, अथ " दर्श- पौर्णमासाभ्यां स्वर्गकामो यजेत " ] इत्यत्रै स्वर्गोद्देशेन दर्श- पौर्णमास्यात्मकाने कयागविधानवद् विविदिषोद्देशेन यज्ञदानाद्यनेकविधाने न वाक्यभेद इति चेत् ? न तत्र हि दर्शपूर्णमासपदेन न कालविधानम्, उत्पत्तिवाक्यैरेव प्राप्तत्वात्, अतो दर्श- पूर्णमासपदं तत्प्रख्यन्यायसिद्धं नामधेयम्, तत्प्रख्यं चान्यशास्त्रम्, यथा - " अग्निहोत्रं जुहोति ” इत्यत्र मन्त्रवर्णेनाभेः प्राप्तत्वान्नाग्निदेवताविधिः, किन्तु नामधेयं तथात्र विवक्षितमिति सर्वस्य यज्ञोपयोगिनो ग्रहशब्दव्यपदेश्यस्य पात्रस्य संमार्जनं न्याय्यम् । यथा चैकोद्देशेना ने कविधानं वाक्यभेदभयादशक्यं तथाऽनेकोद्देशेनैकविधानमपि यत एकविधावेकस्यैवोद्देश्यत्वमेवं चैकमुद्दिश्य यस्यैकस्य विधानं तस्यैव पुनरन्यमुद्दिश्यापि विधानमिति विध्यावृत्तिलक्षणो वाक्यभेदः स्यादेवेत्याह-एकोद्देशेनेति । तत्र दृष्टान्तमाह-यथेति । अत्रैव महं संमाष्टत्यत्रैव । संमार्गविधानमित्यनन्तरमशक्यमित्यनुषजनीयम् । उक्तमर्थं प्रकृते सङ्गमयन्नाह तदिद्देति । इहेत्यस्यैव स्पष्टीकरण- तमेतमित्यादिविधाविति तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विधावीत्यर्थः । अरुणादिवाक्यवदिति - अरुणयैकहायन्या गवा सोमं क्रीणातीत्यत्र यथा आरुण्याद्येकविशिष्टगोकरणकसोमक्रयविधानं न सम्भवति तथा तमेतमित्यादिविधौ नैकविशिष्टक्रियाविधानमतो नैकविशिष्टक्रियाबोधकत्वमित्यर्थः । एकविशिष्टक्रिया. बोधकत्वाभावे हेतुमुपदर्शयति- असंभवादिति यज्ञेन दानेनेत्यादिना यज्ञ-दानादि क्रियालक्षणाने कविशेषणेषु समानयोगक्षेमेषु सत्सु तन्मध्यादेकमेव किञ्चन विशेषणमुपादाय तद्विशिष्टविविदिषाक्रियाबोधकत्वस्य तमेतमित्यादावसम्भवात् यदेव विशेषणं नोपादीयते तस्यैवोक्तविधावुपादानवैयर्थ्यमनुषज्यत इत्यत एकविशिष्टक्रियाविधानं न सम्भवतीत्याशयः । यदि च कथञ्चिदेकविशिष्टक्रियाबोधकत्वं सम्भाव्येत तदाऽप्याह- अनङ्गीकाराच्चेति-तमेतमित्यादिवचनस्यैकविशिष्टक्रियाबोधकत्वस्यानभ्युपगमाच्चेत्यर्थः । नापि दध्ना जुहोतीत्यादिवदिति - दध्ना जुहोतीत्यत्र होमानुवादेनैकस्य दध्नो गुणस्य यथा विधानं तथा प्रकृतेऽपि कस्याश्चित् क्रियायामेकविशेषणविधानमित्यपि नेत्यर्थः । निषेधे हेतुमाह- उक्त हेतोरेवेति- असंभवादनङ्गीकारादेव चेत्यर्थः । अनेकोद्देशेनैकविधानमपि वाक्यभेदभयान्न संभवति प्रकृते इत्याह- यज्ञ दानादीन्युद्दिश्येति । विविदिषाफल संबन्धविधाने इत्यस्य कथं न वाक्यभेद इत्यनेनान्वयः, कथं न वाक्यभेदः ? स्यादेत्रेत्यर्थः । अनेकोद्देशेनैकविधाने वाक्यभेदप्रसङ्गस्य दृष्टान्तमाह - एकत्वग्रहोद्देशेनेति - एकत्वग्रहो भयोद्देशेन सम्मार्जनस्यैकस्य विधाने यथा वाक्यभेदस्तथेत्यर्थः । प्रकृते एकमुद्दिश्याने कविधानेऽपि वाक्यभेदप्रसङ्ग इत्याह- विविदिषाफलमुद्दिश्येति । यज्ञ-दानादिविधाने वेत्यस्यापि कथं न वाक्यभेद इत्यनेनान्वयः । तत्र दृष्टान्तमाह- ग्रहोद्देशेनेति- ग्रहमुद्दिश्येकत्व - संमार्जनयोर्विधाने यथा वाक्यभेदस्तथेत्यर्थः । एकफलोद्देशेनानेकक्रियाविधानेऽपि प्रकृते न वाक्यभेद इति सदृष्टान्तमाशङ्कते अथेति । समाधत्ते नेति । हि यतः, तत्र दर्श- पौर्णमासाभ्यां यजेतेत्यत्र । न कालविधानं यागोद्देशेन नामावास्यापूर्णिमालक्षणकालविधानम् । तत्र हेतुमाह - उत्पत्तिवाक्यैरेवेति द्रव्यं देवता च यागस्वरूपं तद् यद्वाक्ये प्रतिपाद्यते तदुत्पत्तिवाक्यम्, दर्शपौर्णमासस्थले षट् यज्ञाः, ततस्तेषामुत्पत्तिवाक्यान्यपि षडिति उत्पत्तिवाक्यैरिति बहुवचनम् । प्राप्तत्वात् कालस्य प्राप्तत्वात् । अतः दर्श- पूर्णमासपदेन कालविधानाभावतः । तत्प्रख्येति तत्प्रकाशकान्यशास्त्रतस्तस्य प्राप्तौ तत्प्रतिपादकतया - वभासमानशब्दो न तद्विधायकः किन्तु नामधेय इति तत्प्रख्यन्यायानुगमनिका । तत्प्रख्यन्यायेत्यत्र तत्प्रख्यं किमित्यपेक्षायामाह - तत्प्रख्यं चान्यशास्त्रमिति । तत्प्रख्यन्यायसिद्धं नामधेयमिति दृष्टान्तोद्घाटनेन स्पयष्टति - यथेति । नाग्निदेवताविधिः होमोद्देशेन नाग्निस्वरूपदेवताया विधानम्, तर्हि अग्निहोत्रमिति पदं किमर्थमिति पृच्छति - किन्त्विति । उत्तरयति नामधेयमिति- होमविशेषस्य नामधेयं संज्ञा अग्निहोत्रमिति पदम् । तथा एवम् । अत्र दर्श- पूर्णमासाभ्यां ४२ ३२९

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496