Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । णिकत्वात् । वस्तुतः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेनैव द्वितयादीनां हेतुत्वम् , नातः प्रागुक्तप्रतिबन्धकत्वकल्पनागौरवम्” इत्याहुः । ___उच्छङ्खलास्तु-" नील-पीत-रक्ताद्यारब्धघटादौ नील-पीत-रक्तादिभ्य एव नीलपीतोभयज-पीतरक्तोभयज-तत्रितयजादीनामुत्पत्तिः सर्वेषां सामग्रीसत्त्वात् , किन्त्वत्र चरमं व्याप्यवृत्तिरितराणि त्वव्याप्यवृत्तिनीति विशेषः, न चैकमेव तदस्त्विति वाच्यम् , तत्तदवयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे विलक्षणविलक्षणचित्रोपलम्भात् , न च नील-पीतादिविशिष्टचित्रेणावान्तरचित्रप्रतीतिसम्भवः, अखण्डेऽभ्रे सामान्य. चित्रत्वेनाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यप्रत्ययात्, न चेदेवं तदा नीलाद्यविशेषिता ये नीलादिभेदास्तत्तदाश्रयरूपसमुदायेनानुगतचित्रप्रतीतेश्चित्रत्वं नीलादिभेदसमुदायेन नीलाद्यनुगतप्रतीतिचित्ररूपप्रसङ्गस्तथोपदर्शनेन प्रतिवध्यप्रतिबन्धकभावगौरवमरहस्तयति-- वस्तुत इति । समवायनेति-नील-पीत-रक्तकपालत्रितयारब्धघटे नीलपीतकपालद्वयगतनील-पीतोभयं नील-रक्तकपालद्वयगतनील रक्तोभयं वा स्वाधिकरणपर्याप्तवृत्तिकत्वं तद्घटस्य नास्ति नील-पीत-रक्तकपालत्रितयपर्याप्तवृत्तिकत्वसम्बन्धेन न वर्तते, यतः स्वपदेन नील-पीतोभयस्य प्रहणे तदधिकरणं नील-पीतकपालोभयम्, तत्पर्याप्तवृत्तिकस्वात् , अत एव च नील-रकोभयस्यापि स्वाधिकरणपर्याप्तवृत्तिकत्वसम्बन्धेन न तत्र घटे सत्त्वमिति समवायेन द्वितयजचित्ररूपकारणस्य स्वाधिकरणपर्याप्तवृत्तिकस्वसम्बन्धेन द्वितयस्य त्रितयारब्धघटेडभावान्न द्वितयारधचित्ररूपविशेषप्रसङ्ग इत्यर्थः । अत इति-उक्त कार्यकारणभावाभ्युपगमादेवेत्यर्थः ।
उच्छङ्गलानां मतमुपदर्शयति- उच्छङलास्त्विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । 'रक्तादि' इत्यादि. पदाच्छुक्लादेरुपप्रहः, एवमग्रेऽपि । तत्रितयजेति-नील-पीत-रक्तत्रितयजेत्यर्थः. आदिपदान्नीलरतोभयज-नीलशुक्लोभया रक्तशुक्लोभयजादीनां नीलपोतशुक्लतत्रितयज पीतशुक्लरकैतत्रितयजादीनां नील-पीत-रक्त-शुक्लतच्चतुष्टयजादीनां च प्रहणम् । सर्वेषां नील-पीतोमयजादिनिखिलानाम् , नील-पीत-रक्तादित्रितयादिसत्त्वे नील-पीतोभयादेरपि नील-पीतोभया. दिजचित्रकारणस्य सत्त्वादित्यर्थः । किन्विति-नील-पीत-रक्तैतत्रितयस्थले नीलपीतोभयज-नीलरक्तोभयज-पीतरक्कोभयज-नील पीतरक्ततत्रितयजानां चतुर्णा मध्ये चरमं नीलपीतरक्कैतत्रितयजं चित्रं व्याप्यवृत्तिः, सम्पूर्णऽवयविनि तस्य सत्त्वात्, इतराणि तद्भिन्नानि नीलपीतोभयजादीनि त्रीणि चित्ररूपाणि अव्याप्यवृत्तीनि, यतो नील-पीतोमयजं चित्रं रक्तावयवावच्छेदनावयविनि न वर्तते किन्तु नील-पीतावयवद्वयावच्छेदेन, एवं नोल रक्कोभय चित्रं पीतावयवावच्छेदेन न वर्तते, किन्तु नील-रक्तावयवद्वयावच्छेदेन, पोतरकोमयज चित्रं नीलावयवाच्छेदेन न वर्तते किन्तु पीत-रक्तावयवद्वयावच्छेदेनेत्येवमव्याप्यवृत्तीनीत्यर्थः। ननु नील पीत-रक्तेभ्य एकमेव चित्रं तत्रोपजायत इत्याशय प्रतिक्षिपति-न चेति- अस्य • वाच्यम्' इत्यनेनान्वयः। तत् चित्रम् । निषेधे हेतुमाह-तत्तदवयवद्वयति -नीलपीतावयवद्वय-पौतरकावयवद्वयनीलरकावयवद्वयेत्यर्थः । नौल-पीतावयवद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे सति यादृशं विलक्षण चित्ररूपमनुभूयते ततो विलक्षणं चित्रं पीत-रक्तावयवदयावच्छेदेनेन्द्रियसन्निकर्षे सत्यनुभूयते, ततोऽपि विलक्षणं चित्रं नील-रक्तावयवदया. वच्छेदेनेन्द्रिय सन्निको सत्यनुभूयते, एकचित्रस्यैव तत्र भावे वित्थं विलक्षण विलक्षणचित्रोपलम्मो न भवेदतस्तत्र नानैव चित्ररूपाण्यभ्युपेयानीत्यर्थः। ननु नील-पीतादिवैशिष्ट्यमेकस्मिन्नेव चित्रे उपादायाऽवान्तरचित्रप्रतीतिसम्भवान्ना. ऽनेकचित्राभ्युपगमो ज्यायानित्याशङ्कय प्रतिक्षिपति-न चेति । यद्यवयविन्येकं चित्रं स्यादपराणि च नीलादीन्यपि स्युस्तदेत्थमुपपादनं स्यादपि, न चैवम् , चित्ररूपाण्येव नानाविधानि तत्र यथाऽऽकाशेऽखण्डंचित्रत्वसामान्यमप्यखण्डान्य. वान्तरचित्रत्वान्यपि ततोऽखण्डचित्रत्वसामान्य चित्रमात्रे वर्तत इति तन सहाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यं प्रतीयत इति तेषामुपगमस्तथैवैकस्मिन्नवयविनि नानाचित्राणां सामानाधिकरण्येनानुभूयमानत्वाद् नानाचित्राण्युपेयानीति निषेधहेतुमुपदर्शयति- अखण्डेऽभ्रसामान्येति- अत्र 'अखण्डसामान्य' इति पाठो युक्तः। यद्येवं न स्वीक्रियते तदा चित्रत्वं नीलत्वादिकं च किमिति स्वीकरणीयम् ! नीलविशिष्टरक्तेन नील-रक्तद्वयजचित्रप्रतीतेनीलविशिष्टपीतेन नीलपीतद्वयजचित्रप्रतीतेरेवं दिशा नील पीतद्वयजचित्रप्रतीतीनां तन्नीलतन्नीलादितत्तन्नीलादिविशेषसमुदायेन नीलानुगतप्रतीतेः, एवं पीताद्यनुगतप्रतीतीनामप्युपपत्तेरित्याह-न चेदेवमिति । नीलाद्यविशेषिताः तन्नीलतन्नीलेत्यादिदिशा नीलाद्यविशेविताः । नीलादिभेदाः नीलपीतादिविशेषाः । तत्तदाश्रयरूपेति-नीलाश्रय-पीताश्रयरूपेत्यर्थः । चित्रप्रतीते;

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210