Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 112
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। वैज्ञानिकसम्बन्धेन समाधातुमशक्यत्वाच, तत्तत्सम्बन्धेन विशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्तत्स. म्बन्धनिरूपितवैज्ञानिकसम्बन्धेनैव विशिष्टवैशिष्ट्यबुद्धित्वावच्छिन्नं प्रति हेतुत्वकल्पने त्वतिगौरवम्, संशयदशायामपि शुद्धसम्बन्धेन कार्यापत्तिश्च, न चेष्टापत्तिः, अनुभवविरोधात्, अन्यथा विशिष्टवैशिष्ट्यं न कार्यतावच्छेदकमर्थसमाजसिद्धत्वात् , विशेषणज्ञानद्वयादेव तादृशबोधोपपत्तिरिति मिश्रमत साम्राज्यापत्तेः, ' दण्डो रक्तो नवा ?' इति संशयानन्तरमजायमानस्य दण्डो रक्त इति निश्चयानन्तरं च जायमानस्य बोधस्यानुभवसिद्धत्वादेव हि तत्रोक्तकार्यकारणभावेन तन्मतं निराक्रियते, नियतसम्बन्धगर्भत्वेऽपीयमेव युक्तिरिति । इदं तु स्याद् ' रक्तदण्डवान् ' इत्यत्र दण्डाश्रितैव प्रकारता, तदवच्छेदकता च शक्यमित्यत आह-तत्तत्सम्बन्धेनेति-तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धस्य गुरूभूतस्य निरूपकीभूततत्तत्सम्बन्ध. भेदभिन्नस्य कार्यतावच्छेदकसम्बन्धतयाऽभिमतत्वेऽतिगौरवं स्पादित्यर्थः। तथा गौरवस्य सह्यतायां दोषान्तरमाह-संशयदशायामपीति- 'दण्डो रक्तो नवा ?' इति विशेषणतावच्छेदकप्रकारकसंशयदशायामपीत्यर्थः । तदानीं विशेषणतादच्छेदकप्रकारकनिश्चयाभावे विशेषणतावच्छेदकप्रकारकनिश्चयकार्य तत्तत्सम्बन्धनिरूपितवैज्ञानिकसम्बन्धन विशिष्टवैशिष्टयज्ञानं मा भूत् , शुद्धसम्बन्धेन वैज्ञानिकादिलक्षणेन विशिष्टवैशिष्टयज्ञानं च न तत्कामिति तत् स्यादित्यर्थः । 'रक्तो दण्डो नवा ?' इति संशयदशायां 'रक्तदण्डवान्' इति विशिष्ट वैशिष्टयावमाहिनिश्चयस्याननुभूयमानत्वेनेष्टापत्त्या तदापादनस्यादोषत्व. मुररीकर्तुमशक्यमित्याह-न चेष्टापत्तिरिति । अन्यथा अननुभूयमानस्यापि विशेषणतावच्छेदकप्रकारकसंशयदशायां विशिष्टवैशिष्टयबोधस्याभ्युपगमे। अर्थसमाजसिद्धत्वात रकत्वरूपविशेषणज्ञानाद् रक्तत्वविशिष्टदण्डस्य भानं दण्डरूपविशेषणज्ञानाद् दण्डवैशिष्टयस्य भानमित्येवं तद्धटकप्रत्यकधर्मावच्छिन्नभानसमाजसिद्धत्वात् । एतदेव स्पष्टयति-विशेषणशानद्वयादेवेति-रक्तत्वज्ञान-दण्डज्ञानद्यादेवेत्यर्थः । तादृशबोधोपपत्ति: रक्तत्वविशिष्टदण्डवैशिष्टयबोधोपपत्तिः। इति मिश्रमतसाम्राज्यापत्तेः इत्येवस्वरूपं यत् पक्षधरमिश्रस्य मतं तत्साम्राज्यापत्तेः । विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयबोध इति पक्षधरमिश्रमतस्य निराकरणं तेन सम्बन्धेन तद्धर्मविशिष्टवैशिष्टबुद्धि प्रति तेन सम्बन्धेन तद्धर्मलक्षणविशेषणतावच्छेदकप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावबलादेव क्रियते, तदुक्तवैज्ञानिकसम्बन्धेन कार्यकारणभावपक्षे संशयदशायामपि विशिष्टवैशिष्टयबोधस्याभ्युपगती न सम्भवतीत्यावेदनायाह- 'दण्डो रक्तो नवा?' इति संशयानन्तरमिति । 'अजायमानस्य' इत्यस्य 'बोधस्य' इत्यनेनान्वयः, 'बोधस्य' इत्यस्य विशिष्टवैशिष्टयबोधस्येत्यर्थः । तत्र विशिष्टवैशिष्टयबोधे । उक्तकार्यकारणभावेन तेन सम्बन्धेन तद्विशिष्टवैशिष्ट्यबोधं प्रति तेन सम्बन्धन तद्धर्मप्रकारकनिश्चयः कारणमित्येवं कार्यकारणभावेन । तन्मतं विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयज्ञानमिति पक्षधरमिश्रमतम् , यदि च संशयानन्तरमजायमानत्वमुक्तबोधस्य न स्यात् किन्तुसंशयानन्तरमप्युक्तबोधो जायेत तदा व्यभिचारेण विशेषणतावच्छेदक. प्रकारकनिश्चयस्य तं प्रति कारणत्वमेव न स्याद्, यदि वा विशेषणतावच्छेदकप्रकारकनिश्चयानन्तरमप्युक्तबोधो न जायेत तदाऽप्यन्वयव्यभिचारेण विशेषणतावच्छदकप्रकारकनिश्चयस्य तं प्रति कारणत्वं न भवेत्, न चैवं किन्तु विशेषणतावच्छेदकप्रकारकनिश्चयेन सहोक्तबोधस्य कार्यकारणभावग्राहकावन्वयाव्यतिरेको विद्यते इत्यावेदनाय 'संशयानन्तरमजायमानस्थ' इति निश्चयानन्तरं जायमानस्य, इति च 'बोधस्य' इत्यस्य विशेषणमिति बोध्यम् । विशेषणज्ञानस्य सम्बन्धविशेषविषयकस्वापुरस्कारेणैव विशिष्टबुद्धि प्रति कारणस्वस्याभ्युपगततया विशेषणज्ञानद्वयादेव विशिष्टवैशिष्टयावगाहिज्ञानस्याभ्युपगमे तत्र नियतसम्बन्धमान न स्यात् , तेन सम्बन्धेन विशेषणतावच्छेदकीभूततद्धर्म प्रकारकनिश्चयस्य तेन सम्बन्धन तद्धर्मविशिष्टवैशिष्ट्यबुद्धिं प्रति कारणत्वे तु नियतसम्बन्धविशेषभानमपि तत्रोपपद्यते इत्येतदर्थमेव निरुक्तकार्यकारणभावस्य नियतसम्बन्धगर्भवमित्याहनियतसम्बन्धगर्भत्वेऽपीति । 'रक्तदण्डवान्' इति विशिष्टवैशिष्टयावगाहिबोधे प्रकारत्वं दण्डमात्रस्य तदवच्छेदकत्वं रक्तत्व-दण्डत्वयोः पर्याप्तम्, विशिष्टवैशिष्टथयोधीयप्रकारत्वस्यावच्छेदकत्वं, तदवच्छेदकत्वं वा यथा समानाधिकरणधर्मे तथा व्यधिकरणधर्मेऽपि, तेन लोहितवह्निमान्' इति ज्ञानं लोहितत्वात्मकव्यधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवहि. त्वात्मकसमानाधिकरणधर्मनिष्टावच्छेदकतानिरूपितवाहिनिष्टप्रकारतानिरूपकं ज्ञानम्, 'रक्तदण्डवान्' इति च ज्ञानं रक्क. त्व-दण्डत्योभयपर्याप्तावच्छेदकतानिरूपितदण्डनिष्ठप्रकारतानिरूपकम् . लोहितवाहिमवान्' इति च ज्ञानं लोहितत्वात्मकन्यधिकरणधर्मनिष्ठावच्छेदकतानिरूपितवाहिनिष्ठावच्छेदकतानिरूपितवह्निमन्निष्टप्रकारतानिरूपकमित्येवं दिशा तत्तनिष्ठावच्छेदकतानिरूपितप्रकारताकबुद्धित्वं विशिष्टवैशिष्टथबुद्धित्वमवसे यमिति प्रन्थकारः स्वाभिप्राय प्रकटयति-दंत स्यादिति । 'दण्डा

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210