Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
तादृशानुमित्युत्पादासम्भवात्, न च 'विशेष्ये विशेषणम्' इति रीत्या 'पृथिवी इतरभेदवती' इत्याकारकानुमितिस्तत्र जायत एवेति वाच्यम् , तथा सति साध्यज्ञानशून्यकाले तादृशपरामर्शात् 'पृथिव्यामितरभेदः, पृथिवी इतरभेदवती' इत्याद्याकारकद्विविधविषयताशालिन्या अनुमितेरापत्तेः, न च विशिष्टबुद्धि प्रति विशेषणज्ञानस्य हेतुत्वान्नेयमापत्तिः, एवमपि प्रमेयत्वेनेतरभेदज्ञानकाले तथाविधानुमितेरापत्तिसम्भवात् , न च प्रमेयत्वादिना साध्यज्ञानकाले साध्य विशेष्यकानुमितिप्रतिबन्धकीभूतसाध्यसिद्धिसत्वेन न तत्र तथाविधविषयत्ताशाल्यनुमित्यापत्तिरिति वाच्यम् , साध्यतावच्छेदकप्रकारकसिद्धेरेव साध्यविशेष्यकानुमिति विरोधित्वात् , अन्यथेतरभेदत्व रूपेण भेदान्तरावगाहिसिद्धिकाले तादृशानुमितिवारणाय तत्र पक्षविशेध्यतां निवेश्य सिद्धेः प्रतिबध्यप्रतिबन्धकभावान्तरापत्तेः, तस्मादितरभेदत्वप्रकारकज्ञानकालीनव्यतिरेक
ज्ञानजन्यानमितिविशिष्ट वैशिष्ट्यविषयतास्वीकार आवश्यकः, तत्साधारण्यं च विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यावश्यकम् , तथा च सति नेतरभेदत्वप्रकारकज्ञानशून्यकाले 'विशेष्ये विशेष. णम्' इति रीत्येतरभेदत्वप्रकारकद्विविधविषयताशाल्यनुमित्यापत्तिः, विशिष्टवैशिष्ट्यानवगाहिन्या विशेष्ये विशेषणमिति रीत्या जायमानाया अनुमितेरप्रसिद्धः, विशिष्टवैशिष्ट्यावगाहिन्यां च विशेषणतावच्छेदककृथिव्यामितरभेदः' इत्याकारिकायाश्रेत्येवंद्विविधविषयताशालिन्या अनुमितेः । ननु प्रमेयत्वेन रूपेण यदितरभेदज्ञानं तत् साध्य प्रसिद्धिरूपत्वात् साध्यविशेष्यकानुमितिप्रतिबन्धकमिति तत्काले जायमानाया अनुमितेः साध्यविशेष्यकत्वाभावाभोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्याशङ्कय प्रतिक्षिपति- न चेति- अस्य वाच्यम्' इत्यनेनान्वयः । तत्र प्रमेयत्वादिना साध्यज्ञानकाले । तथाविधेति- निरुक्तद्विधेत्यर्थः । साध्यविशेष्यकानुमिति प्रति साध्यसिद्धेः साध्यतावच्छेदकप्रकारकसिद्धित्वेनैव प्रतिबन्धकत्वम् , प्रमेयत्वं च न प्रकृतसाध्यतावच्छेदकमिति तत्प्रकारकज्ञानस्य साध्यतावच्छेदकप्रकारकशानवाभावात् प्रतिबन्धकत्वामावेन तथाविधविषयताशाल्यनुमित्यापत्तिः स्यादेवेति निषेधहेतुमुपदर्शयति-साध्यतावच्छेदकप्रकारकसिद्धेरेवेति । अन्यथा साध्यतावच्छेदकप्रकारकज्ञानत्वेन साध्यविशेष्यकानुमिति प्रति साध्यसिद्धेः प्रतिबन्धकत्वमनभ्युपगम्य साध्यविषयकज्ञानस्वेन प्रतिबन्धकत्वाभ्युपगमे । तादृशानुमितिवारणाय' इति स्थाने 'तादृशानुमित्यनुत्पत्तिवारणाय' इति पाठो भवितुमर्हति । अत्रायमभिप्रायः- साध्यतावच्छेदकप्रकारकज्ञानत्वेन साध्यसिद्धेः प्रतिबन्धकत्वे इतरभेदत्वेन भेदान्तरावगाहिज्ञानस्यापि साध्यविशेष्यकानुमिति प्रति प्रतिबन्धकत्वेन तत्काले साध्यविशेष्यकानुमित्यनुत्पत्तिरयत्नोपनतेव, साध्य ज्ञानत्वेन प्रतिबन्धकत्वपक्षे तु यत्साध्यस्य ज्ञानं तत्साध्यविशेष्यकानुमि तिर्न भवतीति पृथिवीतरभेदत्वेन भेदान्तरावगाह ज्ञान न साध्य विशेष्यकज्ञानमिति तस तत्र प्रतिबन्धकमिति भवत्येव तत्र साध्यविशेष्यकानुमितिरित्येवं यत् तादृशानुमित्युनुत्पत्तेारणं तद् विशिष्य साध्यविशेष्यकत्वस्य प्रतिबध्यप्रतिबन्धकभावकोटौ निवेशे सत्येव इत्येवं प्रतिबध्यप्रतिबन्धकभावान्तरापत्त्या गौरवमिति । 'पक्षविशेष्यताम्' इत्यस्य पक्षनिरूपिता या साध्यनिष्टविशेष्यता तामित्यर्थः । 'अथ' इत्याशङ्कि। स्ववक्तव्यमुपसंहरन्नाह-तस्मादिति । 'ज्ञानजन्यानुमिति' इति स्थाने 'ज्ञानजन्यानुमितौ' इति पाठो युक्तः । यदा चोक्तानुमितो विशिष्टवैशिष्टयविषयता तदा तादृशानुमितिरपि विशेषणतावच्छेदकप्रकारकनिर्णयजन्येति विशिष्वैशिष्टयप्रत्यक्षत्वं तदवृत्तित्वान्न्यूनवृत्तितया न विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकं किन्तु प्रत्यक्षानुमितिसाधारणमेव विशेषणतावच्छेदकप्रकारकनिर्णयजन्यतावच्छेदकमुपयमित्याह- तत्साधारण्यं चेति-- अनुमितिसाधारण्यं चेत्यर्थः, विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्य तत्साधारण्यं चावश्यकमित्यन्वयः। तथा च सति विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकस्यानुमितिसाधारण्ये च सति । नेतरेति- नमोऽनुमित्यापत्तिरित्यनेनाम्वयः । कथं नोक्तद्विविधविषयताशाल्यनुमित्यापत्तिरित्यपेक्षायामाह-विशिष्टवैशिट्यानवगाहिन्या इति'विशेष्ये विशेषणम्' इति रीत्या काऽप्यनुमितिर्भवत्येव नेत्यप्रसिद्धत्वादेव पृथिवी पृथिवीतरभिन्ना' इत्या कारकानुमितेः 'विशेष्ये विशेषणम्' इति रीत्याऽभ्युपगन्तुमशक्यत्वाद् विशिष्टवैशिष्ट्यावगाहिनी सा भवति, किन्तु त प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया पृथिवीतरभेदत्वप्रकारकनिर्णयः कारणमिति तच्छून्यकाले तद्रूपकारणाभावादेव न सोत्पतुमहतीति 'पृथिवी इतरभेदव्यापकीभूताभावप्रतियोगि थिवीत्ववती' इत्याकारकव्यतिरेकपरामर्शात् तदानीं 'पृथिव्यामितरभेदः' इत्येकाकारैवानुमितिरिति द्विविधविषयताशाल्यनुमित्यापत्तिर्न सम्भवतीत्यर्थः । विशिष्टवैशिष्ट्यावगाह्यनुभवत्वमेव

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210