Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 138
________________ ११२ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । ईहाऽपायपरम्परापरिचयः सर्वोऽप्ययं युज्यते, वस्त्वंशेऽप्युपयोगमाकलयतामन्तर्मुहूर्तावधिम् । अन्येषां तु विकल्पशिल्पघटितो बोधस्तृतीयं क्षणध्वंसी ध्वस्तसमस्तहेत्वमिलितः कस्मिन् विचारे क्षमः॥२॥ नयविचारणायां पर्यायनयविषयतद्वि कल्पानां मनागय्यरत्याविर्भावसङ्कथेति भावः, अतः सागरोपमं प्रस्तुतं स्याद्वाद्यभ्युपगतं वस्तुतत्त्वमस्तु । कथमित्थमभ्युपगन्तुं शक्यमित्यपेक्षायामाह- सोपपत्तिक्षममिति- सामान्यापेक्षया विशेषापेक्षया च ये एकस्मिन्नेव वस्तुनि बोधवैचित्र्यप्रकारा व्यवहृतिभेदास्तन्निबन्धन कार्यकारणभावभेदाः प्रामाण्याप्रमाण्यव्यवस्थादयश्च तेषां सर्वेषां स्याद्वाद्यभ्युपगतेऽनेकान्तात्मकवस्तुन्येवोपपत्तिरिति सर्वविचित्र प्रत्यय-व्यवहारादिसमर्थमित्यर्थः । तदीदृशं वस्तु न केवलं बाह्यमेवान्तरमेव तथा, किन्तु बाह्यमाभ्यन्तरं च स्फुटं तथानुभूयमानत्वात् तथाभ्युपगन्तव्यमित्याह- बाह्यं या स्फुटमान्तरमिति- अत्र वाकारः समुच्चयार्थकः । ननु सामान्य-विशेषस्वभावादीनामखण्ड-सखण्डविषयत्वादीनां विरोधाद् यत् सामान्यात्मकं तद्विशेषात्मकं न भवितुमर्हति, यस्मिन् प्रत्यये नानाविषयताशालित्वं न तकविषयताशालित्वम् , अखण्डविषयतादति च न सखण्ड विषयतावत्वमिति प्रस्तुतं वस्तु न सम्भवती. त्यत आह- समुचितस्याद्वादमुद्राङ्कितमिति- प्रामाणिकानी मध्ये विशिष्टाधिपत्यशालित्वेन राजपदाभिषिक्ताना. मनेकान्तवादिनां तत्तनयोषस्थापिततत्तनिमित्तापेक्षया सामान्य विशेषादिविरोधप्रतिरोधकत्वेन समुचितो यः स्याद्वादोऽनेकान्तवादस्तलक्षणा या मुद्रा तयाऽङ्कितमित्यर्थः । उपमाने समुद्रेऽपि गङ्गायमुनादिनदीसमागमप्रभवो यो जलसमष्टेः पर्याय:परित आय आगमनम् , तस्य या मर्यादा तीरमनुल्ल यैव व्यवस्थानं तया, तीरमुल्लङ्घयापि जलागमनस्य भावे तेन सहैव जलकल्लोलमालायाः समतलस्वभावतयैवानवरतान्यान्यभूभागसमवगाहने ऊर्ध्वदेशाकान्त्यभावादुत्थानं न स्यादिति निरुक्तपर्यायमर्यादयैव समुद्रे वीचिनिचया उत्तिष्ठन्तीति, तद्रष्टुः पुरुषस्य द्रव्यं सुवर्णरत्नादिकं तद्रूपो योऽर्थमाणत्वादों धनं सदवहिते तदवधानपरे-एतस्मिन् रत्नाकरे बहूनि रत्नानि सन्ति तानि कल्लोलमालया यदि तीरमागच्छेयुस्तहि यथेष्टतदुपादानतः कृतार्थो भविष्यामीत्येवं तदेकाने, चिर-चिरकालं यावत् , चेतसि सति, तत्रैव-यस्मात् समुद्रादुत्तिष्ठन्ति कल्लोलास्तस्मिन्नेव समुद्रे, ते शाम्यन्ति न तु समुद्रात् तीरं रत्नान्यानयन्तीति द्रष्टुश्चेतसि मनोरथैकप्रवाहशालिनि मनोरथमपरिपूर्थव शाम्यन्ति- विषयभावं परित्यज्यन्ति, सोऽयं समुद्रः सर्वेषां नदी-नदानां योपपत्तिरेकात्र सर्वेषां प्राप्तावपि निराबाधमवस्थानं न तु कस्यचित् तत्रान्तःप्रवेशोऽन्यस्य च तत्र प्रवेशाभाव इत्येवं वैषम्यलक्षणानुपपत्तिस्तत्र क्षमः, सागरे 'समुद्रः' इति संज्ञाऽन्वर्था- मुद्या सह वर्तत इति, उद्यते नौकादिना यत् तत्र तद् बाह्यम् , रत्नादिकं चान्तयंचस्थितत्वादान्तरम् , तदुभयमपि स्फुटं यथा स्यात् तथा समुचितस्याद्वादमुद्राङ्कितम्- समुचितो यः स्याद्वादःअमुकप्रदेशेऽस्य बाह्यं वस्तु, अमुकदेशेऽस्यान्तरं वस्त्वित्येवमस्तित्ववादः, तस्यातिविपुलशरीरत्वादतिगम्भीरदुरवगाहाधस्तलत्वाच्च यन्मुद्रणं प्रत्यक्षादिबुद्धावप्रतिभासनम्, तेनाङ्कितं चिह्नितं बाह्यमाभ्यन्तरं चास्य न प्रत्यक्षादिबुद्धयाऽवधारयितुं शक्यमित्येवं ज्ञेयमिति ॥१॥ यत्र चेतस्यनेकान्तवस्तुविचारकर्मठे विकल्प चिनिचया उत्तिष्ठन्त्यनेकरूपतायां पर्यायार्थिकनयाभिमतायाम् , द्रव्यार्थिकनयामिमतायो त्वेकरूपतायां शाम्यन्ति, तस्य चैतस एकाऽनेकरूपस्य सतो दीर्घोपयोगरूपतया चिरकालावस्थाने सत्यवतन्मननपरायणस्य स्याद्वादिनः प्रामाणिकपरिषदि सुग्राह्यवचनत्वम्, तदेतत् कथमित्यपेक्षायामाह-ईहेति-अव. गृहीतस्य विशेषाकाङ्क्षणमीहा, यथा 'किञ्चिदिदम्' इति नैश्चयिकावग्रह गृहीतस्य सामान्यवस्तुनः श्रोत्र ग्राह्यत्वादिना प्रायः शब्देनानेन भवितव्यमिति 'शब्दोऽयम्' इति व्यावहारिकावग्रहगृहीतस्य वा शब्दत्वावान्तर-सामान्यवतो मधुरत्व.. सुश्रवत्वादिगुणयोगेन प्रायः शाहादिनानेन भवितव्यमिति ज्ञानमीहा, ततः परः ‘शब्द एवायम् , शाल एवायम्' इति निर्णयोऽवायः, ईहितविशेषनिर्णयलक्षणः, तत्परम्परा- विशिष्टबुद्धि-विशिष्टवैशिष्ट्यावगाहिबुद्धचपलक्षितवैशिष्ट्यावगाहिबुद्धिविशिष्टवैशियबुद्धधकत्रद्वयमितिबुद्धिलक्षणावान्तरप्रभेदलक्षणा. तत्परिचयः-परितः सर्वतोभावेन च य एकत्रोपयोगेऽपेक्षाभेदेन सम्मिलनम्, परिचीयते निश्चीयतेऽनेनेति वा परिचयः, तत्तत्सखण्डाखण्डै कानेकविषयतालक्षण्ययोगः । अयम अनन्तरदर्शितस्वरूपः सर्वोऽपि, अपिना न तु तत्र किञ्चिद् युज्यते किञ्चिन्न युज्यत इत्यर्थस्य संशब्दनम् । युज्यते युक्त्या घटते । केषां मते युज्यते? इत्यपेक्षयामाह-वस्त्वंशेऽपीति-अपिना वस्तुनि किमु वक्तव्यमित्यर्थस्यानेडनम् । अन्तर्मुहूर्तावधिमुपयोगमा कलयताम् अन्तर्मुहूर्तं यावदेक उपयोगोऽवतिष्ठत इत्यन्तर्मुहूर्तस्थितिकमेकमुघयोगमभ्युपगच्छता स्यावादिनां मत इत्यर्थः, वस्त्वंशेऽप्यकोपयोगस्यान्तर्मुहूर्त स्थितिकस्य भावे बहुविचारेहापायादिरूपस्य तस्यांशभेदेन विशिष्टबुद्धित्व-विशिष्टवैशिष्टयबुद्धित्वादिधर्मसमावेशस्य सम्भवेनकानेक सखण्डाखण्डविषयत्वादीनां तत्र सम्भवेन तदा

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210