Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
१२७
पेक्षणीयासन्निधेर्न करोतीति चेत् ? केयं सहकारिणामपेक्षा ? किं तैः सह करोतीत्यन्वयपर्यवसितः स्वभाव(वा)भेदः १ उत तैर्विना न करोतीति व्यतिरेकिनिष्टं स्वरूपम् २, आहोस्वित् तैरुपकृतः करोती. त्युपकारभेदः ३ ?, न प्रथमः-सहकार्यभावकालेऽपि स्वभावस्य तादवस्थ्यात् तदा तत्कार्यकरणापत्तेः, तत्स्वभावतादवस्थ्य एव तैः सहैव करोतीति स्वभावहानिभिया तदा न कार्य करोतीति चेत् ? स तर्हि स्वभावाभेदः सहकारिसाहित्ये सति कार्यकरणनियतः सहकारिणो न जह्यात् , प्रत्युत स्वगल एव बधीयात् । अत एव न द्वितीयः- अकर्तृस्वभावापरावृत्तेः, स हि स्वभावः कालान्तरे उपनयतोऽपि सहकारिणः पराणुद्य कार्य प्रतिबध्नीयात् , तद्विरहादकर्तृशीलः खल्वयमिति; अथ सहकारिषु सत्सु कर्तृस्वभावस्तद्विरहे स्वकर्तृरूपोऽयमित्यभिप्रायः, विरुद्धधर्माध्यासस्तर्हि भावं भिन्द्यात् ; न चायं कालभेदेन
करोति तथाऽतीतानागतकिये प्रति समर्थोऽतीतानागते अपि कुदिवेत्यर्थः, 'अतीतानागतेऽर्थक्रिये' इत्यस्य स्थाने 'अतीतानागते अर्थक्रिये' इति पाठो युक्तः, अतीता चानायता पेत्यतीता ऽनागते, ते अतीतानागते इति द्वितीयाया द्विवचनान्तमेतत् , एवमर्थक्रिये अपि । समर्थोऽपि भावो वर्तमान क्रियाकरणकाले अतीता-ऽनागते अर्थक्रिये न करिष्यतीत्युपगमो न सम्भवति, तत्प्रतिपन्थिन्या 'यस्काले यस्य यत्करणसामथ्र्य तत्काले तस्य तदुत्पादकत्वम्' इति व्याप्तेः सद्भावादित्याह-यत्काल इतिअत्र 'यरकाले यस्य यत्करणसामर्थ्य तस्य तत्काले तदुत्पादकत्वमिति व्याप्तेः" इति पाठो युक्तः । ननु स्थिरस्यापि भावस्य वर्तमानक्रियाकरणकाले अतीतानागते अर्थक्रिये प्रति न सामर्थ्यमतो नातीतानागते अर्थक्रिये तदानीं विदधातीयत आह- असमर्थत्वे त्विति- यद् यत्कार्य प्रति न समर्थ तत् तत्कार्य कदाचिदपि न करोति, यथाऽङ्करं प्रत्यसमर्थ शिलाशकलं कदाचिदपि नारं करोति, अतीतानागते अर्थक्रिये प्रति असमर्थ च प्रकृतमिति प्रयोगोऽत्र ज्ञेयः। पूर्वेतिस्थिरो भावः पूर्वकाले पूर्वकालीनं कार्य करोति, उत्तरकाले उत्तरकालीनं कार्य करोतीत्येवं पूर्वा-ऽपरकालयोः कार्ययोर्यत् करणं तदभावः प्रसज्यत इत्यर्थः । द्रव्यवादी शङ्कते- समर्थोऽपीति-वर्तमानक्रियाकरणकाले भावोऽतीता-नागते अर्थक्रिये प्रत्यपि समर्थ एव, किन्तु तदुत्पादनेऽपेक्षणीयस्य सहकारिणो वर्तमानक्रियाकरणकालेऽसन्निधेस्तदानीमतीता-ऽनागते अर्थकिये न करोतीत्यर्थः । समाधत्तै- केयमिति । तैः सहकारिभिः, एवमग्रेऽपि । 'व्यतिरेकिनिष्टम्' इत्यस्य स्थाने 'व्यतिरेकनिष्ठम्' इति पाठो युक्तः, तस्य व्यतिरेकपर्यवसितमित्यर्थः। न प्रथम इति-तैः सह करोतीति प्रथमपक्षो न युक्त इत्यर्थः, तैः सह करोतीति योऽयमस्य स्वभावः स यदि सर्वदाऽस्य भवेत् तदैव स तस्य स्वभावः स्यात् , एवं च यदान सहकारिसमवधानं तदापि स स्वभावस्तस्य समस्त्येवेति तदूलादतीता ऽनागते अपि अर्थक्रिये तदानीं कुर्यादेवेत्यर्थः । द्रव्यवादी आह-तत्स्वभावेति- यदा न सहकारिसमवधानं तदानीमपि तैः सह करोतीति स्वभावस्तस्य तदवस्थ एव, यदि तदानीं कार्य कुर्यात् तर्हि सहकारिणामभावेऽपि कार्यकारित्वमापतितमस्येति तैः सह करोतीति स्वभाव एव विलायतेत्युक्तस्वभावरक्षार्थमेव तदानीं कार्य न करोतीत्यर्थः, तैः सह करोतीति स्वभावो हि सहकारिसाहित्य सति यत् कार्यकरणं तेन नियतः, यश्च येन नियतः स तस्मिन् सत्येवावतिष्टते, अन्यथा तन्नियतत्वमेव तस्य न स्यात्, एवं च सहकारिभिः सह करोतीति स्वभावस्य सर्वदाऽवस्थाने तद्व्यापकस्य सहकारित्वे सति कार्यकरणस्यापि सर्वदावस्थानमेव, तच्च तदा स्याद् यदि सहकारिसाहित्यमपि सर्वदा स्यात्, अन्यथा सहकारिसाहित्ये सति कार्यकरणमित्येव न भवेत् , तथा चोक्तस्वभावरक्षार्थ पलायमानानपि सहकारिणो गले बनीयादेव, न तु कदाचिदपि जह्यादित्यर्थः । अत एव स्वस्वभावापरित्यागादेव । न द्वितीय इति-तर्विना न करोतीति द्वितीयपक्षोऽपि न सम्भवतीत्यर्थः । अत एव' इत्यतिदिष्टमेव हेतुमुपदर्शयति-अकर्तृस्वभावापरावृत्तरिति- सहकारिसमवधाने सत्यपि सहकारिभिविना न करोतीति स्वभावस्यापरावृत्तरप्रच्यवादित्यर्थः । सहकारिराहित्ये तत्कार्याकरणं तन्नियतः खलु सहकारिभिविना न करोतीति स्वभावः, स च सर्वदा समस्तीति तद्व्यापकं सहकारिराहित्ये सति कार्याकरणमपि सर्वदा भवेत् , तत्स्वरूपसन्निविष्टं सहकारिराहित्यमपि सर्वदेव भवितुमर्हतीति स्वरान्निधापककारणबलादापततोऽपि सहकारिणो दूरीकृत्य स्वकार्य न कुर्यादेव, अन्यथा सहकारिभिविना न करोतीति स्वभाव एवं तस्य न सुरक्षित इत्याह- स हीति । पराणुध हठादपास्य । तद्विरहात सहकारिविरहात् । अयं स्थिरो भावः । द्रव्यवादी स्वाभिप्राय मुद्घाटयति- अथेति । तद्विरहे

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210