Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text
________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
१२३
विरुध्यते, असतोऽप्युपसर्जनतयाऽऽश्रयणं च कर्णशष्कुल्यवच्छिन्नाकाशस्य शब्दप्राहकता वदतां तार्किकाणाम् , आनुपूर्वीविशेषविशिष्टस्य शब्दस्य श्रोत्रग्राह्यतां वदतां मीमांसकादीनां च दृश्यत एवेति भावः । यद्वा घटादेव्यार्थिकेन पर्याय विनिर्मुक्तद्रव्याकारेणैव ग्रहः, पर्यायनयेन तत्र पर्यायत्वापादने च पर्यायविशिष्टतया ग्रहणमित्येवं सूक्ष्मैक्षिकायां शुद्धसङ्ग्रहाद् अन्यविशेषं यावद् अव्यवस्थितिः, अन्यविशेषविकल्पे च शुद्धर्जुसूत्रलक्षणे कारणाभावादेव द्रव्योपयोगो व्यवस्थितः स्यात्-- व्युपरतः स्यादिति व्याख्येयम्, न चानया व्यवस्थयैवैकस्यापि बोधस्यानापत्तिः, तत्तदवान्तरभेदप्रवृत्ती वा विषयान्तरसचारानुपपत्तिः, पर्यायान्तरजिज्ञासोपरमे तद्बोधविश्रान्तेः, इति विभावनीयम् , तदिमुक्तं सम्मती'अवगाहमानः' इत्यनेनान्वयः, तथा च घटाद्यक्ग:घुपयोगो द्रव्याथिकनये घटाऽपेक्षया पर्यायः सन्नपि तस्योसर्जनता गौणतामेवावगाहते, द्रव्यस्वरूपस्य तस्य मुख्यतामवगाहत इत्यतोऽवान्तरद्रव्याधिको भवन् घटाद्यवगाह्यपयोगो न विरुध्यत इत्यर्थः । ननु पर्यायो द्रव्याथिकनयेऽसन्नेवेति कथं तस्योपसर्जनतयाऽऽश्रयणमित्यत आह-असतोऽपीति । ताकि काणां नैयायिकानाम्, नन्वाकाशे कर्णशष्कुल्यवच्छेदः समस्त्येवेति कथं कर्णशष्कुल्यवच्छिन्नाकाशर पगमेऽसत उपसजनतयाऽऽश्रयणमायातीति चेत् ? इत्थम-श्रोत्रेन्द्रियस्य शब्देन सह समवायः सजिकर्षः शब्दप्रत्यक्ष कारणं तैरिष्यते, न च शब्दस्य समवायः कर्णशष्वुलीरूपोपाधौ किन्तु शुद्धाकाशस्वरूप एव, शुद्धाकाशस्तु तन्मते निष्प्रदेश एवं व्यापकः, व्यापकत्वं च देशावच्छदराहित्य सत्येव सर्वमूर्तसंयोगित्वलक्षणं सम्भवति, ततो देशावच्छेदरहितस्य शब्दसमवायितया शब्दप्राहकस्याकाशस्य कर्णशष्कुल्यवच्छिन्नत्वमसदेव शब्दग्रहणोपयोगितयाऽऽश्रीयते, उपसर्जनत्वं तु तस्याकाशस्वरूपेऽवर्तमानत्वेऽप्यन्यतो व्यावर्तकत्वादेवेति, मीमांसकमते व्यापकनित्यद्रव्यरूपे शब्द एकवर्णाव्यवहितोत्तरकालवृत्तित्वरूपस्य कालकृतक्रमावस्थानलक्षणस्यैकवर्णदेशाव्यवहितदेशवृत्तित्वरूपस्य देशकृतक्रमावस्थानलक्षणस्य वाऽनुपूर्वीस्वरूपस्याभावेऽपि व्यञ्जकध्वनिगतस्य तस्यारोपेण तद्विशिष्टस्य शब्दस्य श्रोत्रग्राह्यत्वमित्यसत एवानुपूर्वीविशेषवैशिष्ट्यस्य शब्दाति. रिक्तस्य तस्य न श्रोत्रप्राह्यत्वमत उपसर्जनतयाऽऽश्रयणमिति बोध्यम् । सूक्ष्मेक्षिकामाश्रित्य व्याख्यानान्तरं दर्शयतियद्धति । तत्र घटादौ । पर्यायत्वापादने चेति- यद्यपि द्रव्यार्थिकमते पर्यायाभावात् पर्यायत्वं कुत्रापि नास्ति, ततस्तदापादनमपि न सम्भवति, क्वचित् सत एवापादनसम्भवात् , तथापि पर्यायनयः पर्यायमभ्युपगच्छति तत्र पर्यायत्वमपि स्वीकरोति, स द्रव्यमपि पर्यायदृष्ट्यैव पश्यति, तथा च घटादिरपि तन्मते पर्याय एव तत्र पर्यायत्वज्ञानं प्रमैवेति न तस्यापादनं किन्तु द्रव्यनयस्तत्र तज्ज्ञानं भ्रान्तमेवाभिमन्यत इति तदृष्ट्या 'पर्यायत्वापादने' इत्युक्तिः, यदा चापादितपर्यायत्वको घटादिस्तदा पर्याय विशिष्टतया घटादेव्यस्य द्रव्यार्थिकेन ग्रहणम् । 'अन्त्यविशेषम्' इत्यत्र विषयेण विषयिणोऽन्त्यविशेषज्ञानस्याप्युपलक्षणम् । 'यावद्' इति मर्यादायाम् , तेनान्त्यविशेषविकल्पं विहाय शुद्धसङ्ग्रहादारभ्योपान्त्यविशेषविकल्पपर्यन्तं द्रव्योपयोगोऽव्यवस्थितोऽव्युपरत इत्यर्थः । कारणाभावादेव सामान्यावगाहित्वादेवोपयोगस्य द्रव्योपयोगतेति द्रव्योपयोगे विषयविधया द्रव्यं कारणं तदभावादेव । ननु विशेषाणामानन्त्यात् तेष्वन्त्यविशेष परित्यज्य द्रव्योपयोगप्रवृत्त्युपगमे तत्तद्विशेषाणां स्वस्वोत्तरविशेषापेक्षया सामान्यरूपत्वाद् द्रव्योपयोगपरम्पराप्रबृत्तितो न कोऽपि द्रव्योपयोगो विश्रान्तः स्यात् , तथा तस्यैव विषयावान्तरवैलक्षण्यनिवन्धनद्रव्योपयोगावान्तराशुद्धा-ऽशुद्धतरा-ऽशुद्धतमतत्तत्पर्यायविशिष्टद्रव्यग्रहणाविच्छिन्नधारायां विषयान्तरसम्वारोऽपि न स्यादित्याशङ्कय प्रतिक्षिपति-न चेति । अनया व्यवस्थयेतिशुद्धसङ्ग्रहादारभ्योपान्त्यविशेषपर्यन्तं द्रव्योपयोगोऽव्युपरतोऽन्त्यविशेषविकल्पे द्रव्योपयोगो व्युपरत इति व्यवस्थयेत्यर्थः । अनापत्तिः अपर्याप्तिः, पर्याप्तस्तु बोधस्तदेव यदि तद्विषयेऽनन्तरमेव ज्ञानान्तरापेक्षा न भवति, प्रकृते यदस्य बोधस्य विषयो यदपेक्षया सामान्य सोऽपि विशेषस्तदुत्तरविशेषापेक्षया किं सामान्य स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं तद्विषयापेक्ष्यविशेषस्योत्तरविशेषापेक्षया कि सामान्यं स्यादिति जिज्ञासायां तज्ज्ञानस्यैवं ज्ञानान्तरापेक्षाया अवश्यंभावादेकस्यापि बोधस्यापर्याप्तेरित्याशयः । जिज्ञासाऽवश्यं भवत्येवेति नियमाभावेन यज्ज्ञानविषयस्य पर्यायजिज्ञासा न भवति तद्बोध एव विधान्तिसम्भवान्नानवस्था नवा विषयान्तरसञ्चारानुपपत्तिरिति निषेधहेतुमुपदर्शयति-पर्यायान्तरेति ।
उक्तार्थे सम्मतिसम्मतिमुपदर्शयति-तदिदमुक्तं सम्मताविति । पज्जव० इति- “पर्यायनयव्युत्कान्तं वस्तु द्रव्यार्थिकस्य

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210