Book Title: Nayopadesha Part 1
Author(s): Yashovijay Upadhyay, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 95
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः । परे तु-" नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां ( समवायसम्बन्धावच्छिन्न प्रतियोगिताकानां च ) विजातीयपाकोमयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावश्चित्रत्वावच्छिन्नं प्रति हेतुः" इत्याहुः ।। रूपत्वेनैव चित्रं प्रति हेतुत्वम् , कार्यसहभावेन चित्रेतराभावस्याहेतुत्वेनानतिप्रसङ्गादित्यन्ये । परे तु-" चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम् , नील-पीतोभयारब्धवृत्तिचित्रत्वान्तरवैलक्षण्यावच्छिन्ने च नील-पीतोभयत्वेन हेतुता, एवं तत्रितयारब्धे तत्रितयत्वेन नील-पीतोभयादिमात्रारब्धे च नीलपीतादीतररूपत्वेन प्रतिबन्धकत्वान्न त्रितयारब्धचित्रवति द्वितयारब्धवप्रसङ्गः, न चैवं गौरवम् ; प्रामा प्राचीनमतसमर्थन एवापरेषां मतमुपदर्शयति-परे विति-अस्य 'आहुः' इत्यनेन सम्बन्धः । 'नीलपीतो. भयाभाव-पीतरक्कोभयाभावादीनाम' इत्यत्रादिपदात् नीलरतोभयाभाव-नीलश्वेतोभयाभाव-रक्तश्वतोभयाभाव-पीतश्वतोभयाभावादीनां नील-पीत-रतत्रयाभावादीनां च ग्रहण, तेषां यावतामभावश्च नील-पीतोगयस्य पीत-रतोभयादश्चैकैकस्य स्वसमवायिसमवेतत्वसम्बन्धेन सत्त्वेऽपि चित्ररूपोत्पत्तिनिर्वहतीति । “विजातीयपाकोभयाभावादीनामितिअनादिपदाद् विजातीयपाकत्रयाभावादीनामुपग्रहः, विजातीयपाकोभयश्च नीलजनकतेजस्संयोगपीतजनकतेजस्संयोगोभयनीलजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभय-पीतजनकतेजस्संयोगरक्तजनकतेजस्संयोगोभयादिरूपः, एवं विजातीयपाकत्रयं च नीलजनकतेजस्संयोग-पीतजनकतेजस्संयोग-रक्तजनकतेजस्संयोगत्रयादिरूपम् , समवायसम्बन्धावछिन्नप्रतियोगिताकतदभावानां च यावन्मध्ये प्रवेशाद् यावत्त्वावच्छिन्नप्रतियोगिताकतदभावश्च प्रत्येकं नीलजनकतेजस्संयोग पीतसंयोगोभयादेरैकैकस्य समवायसम्बन्धेन सत्त्वेऽपि सम्भवतीति यत्किञ्चित्पाकोभयतोऽपि चित्ररूपोत्पत्तिनिर्वाह इत्येकस्यैव निरूकाभावस्य चित्रत्वावच्छिन्नं प्रति कारणत्वे न कोऽपि दोष इति । अन्येषां मतमुपदर्शयति-रूपत्वेनैवेति- एक्कारेण नीलेतररूपस्वादिना हेतुत्वस्य व्यवच्छेदः । नन्वेवं नीलकपालद्वयारन्धघटेऽपि चित्ररूपं स्यात् , तत्रापि समवायसम्बन्धेन चित्रं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कारणस्य रूपत्वेन नीलरूपस्य सत्त्वादित्यत आह- कार्यसहभावेनेति । 'चित्रेतराभावस्याहेतुत्वेन' इति स्थाने 'चित्रेतररूपाभावस्य हेतुत्वेन ' इति पाठो युक्तः, तथा च तत्कपालावच्छेदेन समवायसम्बन्धेन चित्ररूपं प्रति समवायसम्बन्धावच्छिन्न प्रतियोगिताकचित्रेतररूपाभानस्य स्वरूपसम्बन्धेन हेतुत्वमिति नीलकपालद्वयाभ्यामारब्धे घंटे समवायसम्बन्धन नीलरूपमुत्पद्यत इति समवायसम्बन्धेन चित्रेतररूपस्य नीलस्य तस्कपाले सत्त्वेन तदभावरूपकारणाभावान्न तत्र चित्ररूपोत्पत्यापत्तिः, नील-पीतकपालदमारब्धघटे तु चित्ररूपमेवोत्पात इति तत्कपाले समवायसम्बन्धेन चित्रेतररूपस्य नीलादेस्तत्राभावात् तदभावरूपकारणस्य सत्त्वमित्याशयः । मतान्तरमाह-परे विति-अस्य 'आहुः । इत्यनेन सम्बन्धः। 'रूपत्वेनैव' इत्येवकारेण नीलेतररूपत्वादिना हेतुत्वस्य व्यवच्छेदः। नन्वेवं नील-पीतकपालाभ्यामारब्धे घंटे यादृशं चित्रं ततो विलक्षणं चित्रं नील-रक्त-कपालाभ्यामारब्धे घटे, एवं नील-पीत-रक्तकपालेरारब्धे घटे, तदेतत्कार्यतावच्छेदकचित्रत्वस्य कारणतावच्छेदकरूपत्वस्याविशिष्टत्वेन नीलपीतोभयारब्धघटवृत्तिचित्ररूप-नीलपातरक्तकपालत्रयारब्धघटवृत्तिचित्ररूपादिवलक्षण्यस्यानिबन्धनस्यैव भावे तस्य नियमो न स्यादित्यत आह-नील-पीतोभयेति । 'चित्रत्वान्तर' इति स्थाने 'चित्रत्वावान्तर ' इति पाठो युक्तः, तथा च नील-पीतोभयारब्धं यचित्ररूपम् , तवृत्ति यचित्रत्वावान्तरवैलक्षण्यं चित्रत्वव्याप्यचित्रत्वविशेषलक्षणसामान्यम्, तदवच्छिन्ने नील-पीतोभयत्वेन हेतुत्वमित्यर्थः । एवम् उक्तप्रकारेण । तत्रितयेति- नील-पीत-रक्तत्रयारब्धचित्ररूपवृत्तिचित्रत्वव्याप्यजातिविशेषावच्छिन्ने नील-पीत-रक्तत्रितयत्वेन हेतुत्वमित्यर्थः । तत्रितयत्वेन' इत्यनन्तरं हेतुता' इत्यनुवर्तते । ननु यत्र नील-पीत-रक्ततन्तुभिश्चित्रपट उत्पद्यते तत्र तन्तुद्वयगतनील-पीतरूपाभ्यामपि पटगतविजातीयचित्ररूपं स्यादित्यत आह-नील-पीतोमयादिमात्रारब्धे चेति- आदिपदादु नील-रक्तोभयादरुपग्रहः । नील-पीतादि। इत्यादिपदाद् नील-रक्तादेप्रेहणम् द्वितयारब्धत्वप्रसङ्गः' इत्यस्य स्थाने 'द्वितयारब्धस्य प्रसङ्गः' इति पाठो युक्तः । उक्त प्रतिबध्यप्रतिबन्धकभावकल्पनगौरवस्य. प्रामाणिकत्वेनाऽदोषत्वमुपदर्शयति-न चैवमिति । एवम् उक्तप्रकारेण प्रतिबध्यप्रतिबन्धकभावाभ्युपगमे । यथा चोक्तत्रितयारब्धस्थले उक्तप्रतिबध्यप्रतिबन्धकभावकल्पनमन्तरेणापि न द्वितयारन्ध

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210