Book Title: Naychakra Sara
Author(s): Meghraj Munot
Publisher: Ratnaprabhakar Gyanpushpmala
View full book text
________________
॥ प्रमाणमाह ॥
सकल नयसंग्राहकम् प्रमाणं प्रमाता आत्मा प्रत्यक्षादि प्रमाणसिद्धः चैतन्यस्वरूपपरिणामी कर्ता साक्षाद् भोक्ता स्वदेहपरिणामः प्रतिक्षेत्रभिन्नत्वेनैव पञ्चकारणसामग्रीतः सम्यग्दर्शन ज्ञानचारित्र साधनात् साधयतेसिद्धिः । स्वपर व्यवसायिज्ञानं प्रमाणं तद् द्विविधं प्रत्यक्ष परोक्ष भेदात्स्पष्टं प्रत्यक्ष परोक्षमन्यत अथवा आत्मोपयोगत इन्द्रिय द्वारा प्रवर्तते न यज्ञानं तत्प्रत्यक्षं, अवधि मनःपर्यायौ देशप्रत्यक्षौ, केवलज्ञानं तु सकलप्रत्यक्षं, मतिश्रुतेपरोने, तच्चतुर्विधं अनुमानोपमानागमार्थापित्तिभेदात् , लिङ्गपरामर्शोऽनुमानं लिङ्गं चाविनाभूतवस्तुकं नियतं ज्ञेयं यथा गिरिगुहिरादौ व्योमावलम्बिधुमलेखां द्रष्टवा अनुमानं करोति, पर्वतो वहनिमान् धूमवत्त्वात् , यत्र घुमस्तत्रानिः यथा महानसं, एवं पञ्चावयवशुद्धं अनुमानं यथार्थज्ञानकारणं, सदश्यावलम्बनेनाज्ञातवस्तुनां यज ज्ञानं उपमान ज्ञानं, यथा गौस्तथा गवयः गौसादृश्येन अद्रष्टगवयाकारज्ञानं उपमानज्ञानं, यथार्थोपदेष्टा पुरुष आप्तः स उत्कृष्टतो वीतरागः सर्वज्ञएव । प्राप्तोक्तं वाक्यं आगमः, राग द्वेषाज्ञानभयादि दोषरहितत्त्वात् अर्हतः वाक्यं आगमः, तदनुयायिपूर्वापराविरुद्ध मिथ्यात्वासंयमकषा यभ्रांतिरहितं स्याद्वादोपेतं वाक्यं अन्येषां शिष्टानामपि वाक्यं आगमः । लिड्डग्रहगाद् ज्ञेयज्ञानोपकारकं

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164