Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 17
________________ अविषादी परलोके स्थिरहस्तोपकरणोपशमलब्धिः / कलिदोषान्मूलगुणैरेकादिगुणोज्झितोऽपि गुरुः / / 20 / / टीका- प्रव्रज्याहगुणविधिप्रव्रजित: दीक्षायोग्यवक्ष्यामाणाऽऽर्यदेशोत्पन्नत्वादिगुणैः संपन्न: सन् विधिप्रव्रजितो विधिना वक्ष्यमाणलक्षणेन प्रव्रजितो दीक्षितः, तथा गुरुकुलाश्रितो समुपासितगुरुकुल इत्यर्थः, नित्यं सदैव प्रव्रज्याप्रतिपत्तेरारभ्य, अक्षतशील: अखण्डितशीलः,शान्तः कषायोपशमात्, तत्त्वज्ञो वस्तुस्वरूपवेदी, यत: अवगतसूत्रार्थ: अधीतसूत्रार्थश्च / / 18 / / तथा - प्रवचनवात्सल्ययुतः प्रवचनं सङ्घः सूत्रं वा तद्वत्सलः, सत्त्वहितरतः सदुपदेशदानादिना जीवहिते सक्तः, अनुवर्तकः भावानुकूल्येन सम्यक् पालकः, धीरो विपुलचित्तत्वेन धैर्यवत्त्वाद् गम्भीरः, गुर्वनुमतपदनिष्ठः स्वगुरुणा दिगाचार्यादिना वा दत्ते पदे निष्ठा स्थैर्य यस्य सः पदनिर्वाहक इत्यर्थंः, तथा धर्मकथाकृत् धर्मोपदेशकः, जनादेयो ग्राह्यवाक्यश्च / / 19 / / तथा - अविषादी परलोके न परिषहाद्यभिद्रुतः कायसंरक्षणादौ दैन्यमुपयाति, स्थिरहस्तोपकरणोपशमलब्धिः स्थिरहस्तलब्ध्युपकरणलब्ध्युपशमलब्धियुक्तश्च। कलिदोषात् कलिकालदोषाद्आस्तां मूलगुणैः अनन्तरोक्तैर्युक्तो गुरुः, एकादिगुणोज्झितोऽपिअन्यतरगुणरहितोऽपि अखण्डितशीलादिबहुगुणयुक्तो गुरुः दीक्षादातेति / / 20 / / एवम्भूतस्य प्रव्राजकस्य कर्तव्यमाह - प्रव्राज्य यो विनेयान् शिक्षा ग्राहयति सम्यगनुवृत्तेः। स गुरुर्गुणमणिजलधिः परः प्रतीप: प्रवचनस्य / / 21 / / टीका - प्रवाज्य दीक्षित्वा योऽनिर्दिष्टनामा विनेयान् शिष्यान् तदनुग्रहस्वनिर्जरार्थं शिक्षा द्विधां ग्रहणाऽऽसेवनभेदाद् ग्राहयति शिक्षयति सम्यग् यथाविधि अनुवृत्ते: भावानुकूल्यात् स शिष्यनिष्पादको गुरुः कृतकृत्यत्वाद् यथार्थनामा भावाचार्यादि: गुणमणिजलधिः गुणरत्नरत्नाकरः। ईदृशे गुणसम्पन्ने गुरौ भवत्येव शिष्याणां भक्तिबहुमानभावः, तत एव चारित्रे श्रद्धा स्थिरता च जायते, नान्यथा। पर: उक्तविपरीत: अननुवर्तक: प्रतीपः शत्रुः प्रवचनस्य श्रीजिनशासनस्य, तथाहि - अननुवर्तनेना ऽविज्ञापितसमयसद्भावादिह परभवे च विरुद्धसेवनाद् यमन) शिष्या: प्राप्नुवन्ति स तथा तान् विरुद्धसेवमानान् दृष्ट्वा चन्द्रोज्ज्वलजिनशासनस्य योऽवर्णवादो जायते सोऽपि सर्व: अननुवर्तकगुरुनिमित्तमिति।।२१।। उक्त: प्रव्राजकः। अथ दीक्षायोग्यमाह उत्पन्नमार्यदेशे जातिकुलविशुद्धमल्पकर्माणम् / कृषतरकषायहासं कृतज्ञमविरुद्धकार्यकरम् / / 22 / / मरणनिमित्तं जन्म श्रीश्चपला दुर्लभं च मनुजत्वम् / न परनिमित्तं निजसुखमितिचिन्तोत्पन्नवैराग्यम् / / 23 / / कालपरिहाणिदोषानिर्दिष्टेकादिगुणविहीनमपि / बहुगुणयुतमाचार्या दीक्षायोग्यं जनं बुवते / / 24 / / टीका - उत्पन्नं जातम्आर्यदेशे सार्धपञ्चविंशतिमगधादिधर्मक्षेत्रान्तर्गतान्यतमदेशे, जातिकुलविशुद्धं जातिर्मातृसत्का कुलं पितृसम्बन्धि ताभ्यां विशुद्धम्, अल्पकर्माणं लघुकर्मिणम्, अत एव अल्पतरकषायहासं महामहोपाध्याय श्री यशोविजय विरचितं 8 मापिरिशुद्धिप्रकरणंसटीकम्

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112