Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 28
________________ रोहिण्यामपि प्रतीतायामपि चशब्दान्मृगशीर्षादिष्वपि निर्दोषेषु नक्षत्रेषु कुर्याद विदध्यात्शिष्यनिष्क्रमणं शैक्षप्रव्रज्याम्। अनन्तरोक्तोत्तराषाढादिषु नक्षत्रेषु न केवलं शिष्यनिष्क्रमणं कुर्याद् अपितु आरोपणं न्यासं व्रतानां प्राणातिपातादिविरमणलक्षणमहाव्रतानां गणिवाचकयो: आचार्योपाध्याययो: अनुज्ञां च तृतीयचतुर्थपदारोपणं च कुर्यात्। अथ किमर्थं क्षेत्रादयो विलोक्यन्त इति चेद्, उच्यते एषा जिनानामाज्ञा यदुतोक्तलक्षणेष्वेव क्षेत्रादिषु दीक्षा दातव्येति यत: क्षेत्रादयश्च कर्मण उदयादिकारणं भवन्ति। उक्तं च - उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया / दव्वं खित्तं कालं भवं च भावं च संपप्प / / 1 / / / / 52 / / ननु प्रव्रज्यार्हः कथं ज्ञायतेत्याऽऽशङ्कायामाह - ___धर्मकथाऽऽक्षिप्तं खलु पृच्छेत् कः कुत्र किंनिमित्तमिति / . कुलपुत्रादिर्ग्राह्यो भजना शेषेषु सूत्रविधेः / / 53 / / ___टीका - धर्मकथाऽऽक्षिप्तं धर्मकथां सर्वज्ञोपदेशलक्षणा, तथाहि - भो भो देवाणुप्पिया, अणाइम एस जीवो कञ्चणोवलो व्व संगओ कम्ममलेण, तद्दोसओ पावेइ चित्तवियारे, उप्पज्जइ बहुजोणीसु, कयत्थिज्जइ जरामरणेहिं, वेएइ असुहवेदणं, दूमिज्जइ संजोयविओएहिं, बाहिज्जए मोहेण, सन्निवाइओ विय न जाणइ हियाहियं, बहुमन्नए अपच्छं, परिहरइ हियाई, पावइ महावयाओ। ता एवं ववत्थिए परिच्चयह मूढयं, निरूवेह तत्तं, पूएह गुरुदेवए, देह विहिदाणं, उज्झेह किच्छाइं, अङ्गीकरेह मेत्तिं, पवज्जह सीलं, अब्भसह तवजोए, भावेह भावणाओ, छड्डह अग्गहं, झाएह सुहज्झाणाई, अवणेह कम्ममलं ति। एवं भो देवाणुप्पिया अवणीए कम्ममलंमि कल्लाणीहूए जीवे विसुद्धे एगन्तेण न होन्ति केइ दुक्कयजणिया वियारा, होई अचंतियं परमसोक्खं ति। ता जहासत्तीए करेह उज्जमं उवइट्ठगुणेसु। (समराइच्च कहा नवमे भवे ज्ञानोत्पत्त्यनन्तरं पृ. 963-64) एवंभूतया धर्मकथया आक्षिप्तम् आकृष्टमेव प्रव्रज्याभिमुखं खलुशब्दोऽवधारणे पृच्छेत् परीक्षाविषयं कुर्यात्। कथमित्याह - कः? कस्त्वं सुन्दर? कुत्र? कुतो वाऽऽयुष्मन् निवससि? गृहत्यागं कुरुषे वा विकल्पे किंनिमित्तं कस्माद् हेतोः? इति एवं प्रश्ने सति स कथयेत्-कुलपुत्रोऽहं राजगृह्यां वसामीत्येतद् ब्राह्मणपाटलिपुत्रमथुराद्युपलक्षणं ज्ञेयम्। भवक्षयनिमित्तं प्रव्रज्याम्यहं भदन्त! इति ब्रुवन् कुलपुत्रादि: उच्चकुलोद्भूतक्षत्रियब्राह्मणादिः ग्राह्यः स्वीकर्तव्यः प्रव्राजनार्थम्। शेषेषु अकुलपुत्राऽन्यनिमित्तादिषु भजना ग्रहणाऽग्रहणविषया सूत्रविधेः निशीथसूत्राद्यनुसारा द्रष्टव्या। उक्तं च - जे जहिं दुगुंछिया खलु पव्वावणवसहिभत्तपाणेसु। जिणवयणे पडिकुट्ठा वज्जेयव्वा पयत्तेणं / / 1 / / 53 / / पृच्छानन्तरं प्रव्रज्याया दुष्करतां तदाराधनविराधनयोश्च महार्थानर्थलक्षणं च फलं कथनायाह - कथयेदिह दीक्षायास्तं प्रति कापुरुषदुरनुचरतां च। ___ आरम्भनिवृत्तानां लोकद्वयसुखसमृद्धि च / / 54 / / टीका - कथयेत् प्रतिपादयेत् तं प्रति शैक्षं प्रति इह मौनीन्द्रप्रवचने दीक्षायाः सर्वत्यागलक्षणाया: कापुरुषदुरनुचरतां क्षुद्रसत्त्वदुष्पालनताम्आरम्भनिवृत्तानां हिंसादिविरतिमतां लोकद्वयसुखसमृद्धिम् इहपरभव महामहोपाध्याय श्री यशोविजय विरचितं 19 मार्गपरिशुद्धिप्रकरणंसटीकम् |

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112