Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 93
________________ शब्दः प्रवर्तिनीति व्यूढो यश्चार्यचन्दनाद्याभिः / यस्तमपात्रे धत्ते जानानोऽसौ महापापः / / 258 / / कालोचितगुणरहिता या स्वस्यां स्थापितं च तं शब्दम् / अनुपालयति न सम्यग् विशुद्धभावा स्वशक्त्यापि / / 259 / / युग्मम् टीका - यः शब्दः प्रवर्तिनीति आर्यामधिकृत्य महत्तरिकेति पदं व्यूढ : उदूढो आर्यचन्दानाद्याभिः आर्याचन्दनाब्राह्मादिभि: प्रवर्तिनीभिः तं प्रवर्तिनीशब्दं यो गणनायको जानान : अवगच्छन्नपि अपात्रे अयोग्यायां धत्ते निवेशयति असौ निवेशक: महापापः तद्विराधको ज्ञातव्यः। न केवलं निवेशको महापापः, अपि तु कालोचितगुणरहिता सती या प्रवर्तिनी स्वस्याम् आत्मनि स्थापितं च निवेशितं च तं शब्दं प्रवर्तिनीपदं विशुद्धभावा सती स्वशक्त्याऽपि न नैव सम्यग् यथाविधि अनुपालयति संरक्षति साऽपि महापापा ज्ञातव्येति भावः / / 258-259 / / अयोग्येभ्य: पदप्रदाने महानर्थं प्रदर्शयन्नाह - पददानेऽयोग्यानां गुरुतरगुणमलनया परित्यक्ताः / शिष्या भवन्ति नियमादाज्ञाकोपेन चात्मापि / / 260 / / टीका - पददाने गणधरादिपदप्रदानेऽपात्रेभ्यो लोकोपघातो भवति, तथाहि यत्र गुरव ईदृशा अनाभोगवन्तस्तत्र शिष्याणां का वार्ता? एवमनादरो भवति गणधरादिगुणेषु गुणाऽभावेऽपि गणधरपदप्राप्तेरिति गुरुगुणमलनया कारणभूतया गणधरादिपदे सति अयोग्यानां गुरुतरो बन्ध इत्येवं ते शिष्याः परित्यक्ता उज्झिता भवन्ति अनर्थयोजनाद् नियमाद् अवश्यम्, एवं तदहितयोजनया हेतुभूतया आज्ञाकोपेन च जिनेश्वराणाम्आत्माऽपि स्वयमपि निवेशक: परित्यक्तो भवतीति / / 260 / / यस्मादेवम् - तस्मात्तीर्थकराज्ञाराधननिरतो यथोक्तगुणपात्रे / गीतार्थो निश्चित्य प्रवर्तिनीगणिपदे दत्ते / / 261 / / टीका - तस्मात् कारणात् तीर्थकराज्ञाराधननिरतो गीतार्थो गणनायकः, यथोक्तगुणपात्रे यथोदितगुणसम्पन्ने प्राणिनि पात्रतां निश्चित्य निर्णीय प्रवर्तिनीगणिपदे महत्तरिकागणधरपदे दत्ते प्रयच्छति / / 261 / / अथ स्वलब्धियोग्यमाह दीक्षावयसोः प्राप्तो धृतिमान् पिण्डैषणादि विज्ञाता। पीठादिधर : प्रोक्तः स्वलब्धियोग्योऽनुवृत्तिपरः / / 262 / / टीका - दीक्षावयसोः पर्यायवयोभ्यां प्राप्तः चिरप्रव्रजित: परिणतश्चेत्यर्थः, धृतिमान् धैर्यवान् पिण्डैषणादिविज्ञाता आदिशब्दाद् वस्त्रपात्रैषणादिग्रहः पीठादिधरः बृहत्कल्पपीठिकादिनियुक्तिभाष्यचूादिधर: अनुवृत्तिपर: उपायज्ञस्तत्परश्च सामान्येन स्वलब्धियोग्य: योग्य: स्वलब्धेः प्रोक्त: प्रतिपादितो जिनवरगणधरैः / अयं भाव: - प्राक् स्वलब्धवस्त्रपात्रादेः शुद्धाशुद्धविषयकनिर्णयो गुरुविहितपरीक्षयाऽजायत, अधुना तु स्वलब्धियोग्यतया तन्निणेतुं स्वयं समर्थः, अत एव गुरुदत्तयोग्यपरिवारः पृथगपि विहर्तुं शक्नोतीति / / 262 / / एतदेवाह - . महामहोपाध्याय श्री यशोविजय विरचितं __84 मार्गपरिशुद्धिप्रकरणसटीकम्

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112