Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 45
________________ समरायणिया, एवं दो ईसरा दो सिट्ठि दो अमच्चा, 'नियम'त्ति दो वणिया घड'त्ति गोट्ठी दो गोट्ठीओ, दो गोट्ठीया पव्वइया, दो महाकुलेहितो पव्वइया, सव्वे समा समप्पत्ता समराइणिया कायव्वा, एएसिं चेव पुव्वपत्तो पुव्वं चेव उवट्ठावेयव्वो'ति वृद्धव्याख्या / / 636 / / 95 / / अथ समभावविरहेपि शिष्याऽत्यागे औचितीमाह - . तद्विरहेऽपि च महतां प्रकृत्यतिक्लेशवर्जनौचित्यम्। लोकविरोधत्यागाच्छासनमानश्च विपुलफलः / / 16 / / टीका - तद्विरहेऽपि सामायिकचारित्रलक्षणसमभावाऽभावेऽपि शिष्यस्याऽत्याग उचित एव चशब्दो हेतौ यतो महतां श्रीजिनशासनप्रतिपन्नानां महानुभावानां प्रकृत्यतिक्लेशवर्जनौचित्यं प्रकृत्या स्वाभाव्यादेव अतिक्लेश: स्वपरगत- तीव्रद्वेषादिहेतुकक्रोधादिस्तद्वर्जनं तस्य परिहार एवौचित्यम्। अपि च कालस्य क्लिष्टत्वाद् एष एव कल्पो वर्तत इति शिष्याऽत्यागेन पितृराजादीनां क्रमविपर्ययाऽकरणाच्च यद्भवति तदाह - लोकविरोधत्यागात् लोकविरोध: राजभृत्यादेः क्रमविपर्ययकरणलक्षणः अनिष्टफल इति तस्य त्यागाद् वर्जनाद् विपुलफल: स्वपरबोधिलाभादिपारम्पर्येण मुक्तिफल: शासनमानश्च प्रवचनबहुमानश्च एषैव जिनाज्ञेति / / 96 / / साम्प्रतं कथनविधिमाह कायव्रतकथनविधौ हेतुमुपदर्शयेद् यथा पृथिवी / मांसाङ्कुरसमरूपाङ्कुरोपलम्भेन जीवमयी / / 97 / / भूखातस्वाभाविकजनुषो दुर्दुरकवज्जलं च तथा / व्योमोद्भवस्य पातात् स्वभावतो मत्स्यवद्वापि / / 18 / / आहारादनलोऽपि च वृद्धिविकारोपलम्भतो व्यक्तः / अपरप्रेरिततिर्यग्गते: सचित्तश्च वायुरपि / / 99 / / जन्मजरामृतिजीवनारोहणरुग्दौहदैस्तथाहारात्। रोगचिकित्सादिभ्यो नार्य इव सचेतनास्तरवः / / 100 / / त्रसजीवत्वं व्यक्तं तत्पालनतो व्रतानि मूलगुणाः / / प्राणातिपातविरमणमुख्याः षट्चरणतरुभूमौ / / 101 / / टीका- कायव्रतकथनविधौ काया: पृथिव्यादिषज्जीवनिकाया: व्रतानि प्राणातिपातविरमणादीनि षड्तेषां कथनविधौ निरूपणविधौ हेतुं युक्तिम् उपलक्षणाद् दृष्टान्तम् उपदर्शयेद् निर्दिशेत्। एवं कथितेऽपि अनधिगततदर्थम्, अधिगतेऽपि अपरीक्ष्य व्रतेषु नोपस्थापयेदित्यर्थः, निरूपणपद्धतिमाह - यथा उपदर्शने पृथिवी स्वाश्रयस्था विद्रुमलवणोपलादिरूपा जीवमयी सचेतना मांसाङ्कुरसमरूपाङ्कुरोपलम्भेन मांसाङ्कुरः अर्थोविकाराङ्कुरवत् समरूपाङ्कुरोपलम्भेन समानजातीयाङ्कुरोत्पत्तिमत्त्वेन दर्शनात् / / 97 / / तथा - भूखातस्वाभाविकजनुषः महामहोपाध्याय श्री यशोविजय विरचितं 36 गार्गपरिशुद्धिप्रकरणं सटीकम्

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112