Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh
View full book text
________________ अनधिगमाद् अवबोधाभावादेवाश्रद्दधाने, आदिशब्दाद् अधिगतेऽपि अश्रद्दधाने, श्रद्धासंपन्नेऽपि प्रमादादवर्जके, पुराणेऽपि किंविशिष्टे? शिष्टाभिज्ञे शिष्टे कथितेच अभिज्ञे ज्ञातर्यप्यश्रद्दधाने अवजके चास्तामभिनवप्रव्रजिते पुराणेऽपि उक्तलक्षणेऽपि उत्कृष्टा षण्मासिकी भूमिका ज्ञेया। एवमेव मध्यमा अनधिगते अश्रद्दधाने च प्राक्तनाद्विशिष्टतरे। भावितमेधाविनोऽप्यपुराणस्य करणजयार्थं मध्यमैव नवरं लघुतरेति ।।९२।।अनन्तरोक्तां भुवमवाप्तमनवाप्तंच यो रागद्वेषाभ्यामुपस्थापयति न चोपस्थापयति तस्य दोषमाह - एनां भुवमप्राप्तं य उपस्थापयति तथाऽऽप्तमपि / रागाद्वा द्वेषाद्वा नोपस्थापयति स विरोधी / / 93 / / टीका- एनाम् अनन्तरोक्तां भुवं भूमिकाम्अप्राप्तं योगोद्वहनाऽध्ययनादिनाऽनवाप्तं शैक्षं यो गुरु: उपस्थापयति महाव्रतेषु स्थापयति रागाद्वा अभिष्वङ्गलक्षणात्प्रमादाद्वा तथा समुच्चये शिक्षकान्तरे रागात् आप्तमपि प्राप्तमपि भुवं द्वेषाद्वा अप्रीतिलक्षणाद् न नैव उपस्थापयति आरोपयति स गुरुः विरोधी श्रीजिनाज्ञाविरोधभाग् भवति, आज्ञानवस्थामिथ्यात्वादिकं प्राप्नोतीत्यर्थः / / 93 / / अत्राधिकारे पितृपुत्रादीनां प्राप्ताऽप्राप्तानां य: क्रमः पूर्वाचार्येभणितस्तमाह पुत्रादेश्च विलम्बः पित्रादिभ्यः स्मृतस्त्रिपञ्चाहः / * अप्रज्ञाप्यतया नो परतोऽपीष्टो बहुद्वेषे / / 94 / / टीका- पित्राद्यपेक्षया पुत्रादेच आदिपदादाजाद्यपेक्षयाऽमात्यादेरुपस्थापनायां विलम्ब: कालक्षेप: पित्रादिभ्यः पितृराजादीनां कृते स्मृतो विहितस्तीर्थकरगणधरैः, कियन्मानः? त्रिपञ्चाहः दिनानां पञ्चकत्रयं पञ्चदशदिनमान इत्यर्थः / तद्यथा - द्वौ पितापुत्रौ प्रव्रजितौ, यदि द्वावपि युगपत् प्राप्तौ तदा युगपदुपस्थाप्यते। अथ पुत्रे सूत्रादिनाऽप्राप्ते पितरि तु प्राप्ते पितुरुपस्थापना। पुत्र प्राप्ते पितरि चाऽप्राप्ते तदा यावत् शुद्ध उपस्थापनादिवस एति तावत् पिता प्रयत्नेन शिक्षाप्यते, यदि पिताऽपि प्राप्त: स्यात्तदा युगपदपस्थाप्येते। अथ तथापि न प्राप्त: पिता तदाऽयं विधि:दण्डिकादिदृष्टान्तेन आदिपदादमात्यादिदृष्टान्तेन पिता प्रज्ञाप्यते, यथा कश्चिद् राजा राज्यपरिभ्रष्टः सपुत्रः अन्यं कञ्चिद् राजानं सेवितुं लग्नः / स राजा पुत्रे तुष्टः / तं तस्य राज्ये स्थापयितुमिच्छति। किं स पिता नानुजानाति? अनुजानात्येवेत्यर्थः / एवं प्रज्ञप्तोऽपि यदि नेच्छति तदा प्रतीक्ष्यते पञ्चाहं यावत्। पुनरपि प्रज्ञाप्यतेऽनिच्छति पुनरपि प्रतीक्ष्यते पञ्चाहं यावत्। पुनरपि प्रज्ञप्तो यदि नेच्छति तदा पुनरपि प्रतीक्ष्यते पञ्चाहं यावत्। एतावता कालेन यदि प्राप्तस्तदा युगपदुपस्थापना। अत: परम् अनिच्छत्यपि पितरि पुत्र उपस्थाप्यते। अथवा मानी यथाहं पुत्रसकाशाद् अवमतर: क्रिये इति उनिष्क्रामेत् गुरौ पुत्रे वा प्रद्वेषं गच्छेत्तदा पञ्चदशदिनेभ्य: परतोऽपि प्रतीक्ष्यते यावत् प्राप्त इति। एतदेवाह - त्रि: प्रज्ञप्तोऽपि यदि नेच्छति तदा अप्रज्ञाप्यतया अनवबोध्यतया नो नैव परतोऽपि पञ्चदशदिनेभ्योऽप्यधिको विलम्ब इष्ट : अभिमत:। बहुद्वेषे तु पितरि विलम्ब: परतोऽपीष्टो यावत्प्राप्त इति भावः / / 94 / / नन्वेवं यः साधुवचनमपि न बहुमन्यते तस्मिन् सामायिकचारित्रलक्षण: समभावः कथं भवेद्? नैव भवेदिति तस्य त्याग एवोचित इति पराभिप्रायमाशङ्कय समाधानमाह - | महामहोपाध्याय श्री यशोविजय विरचितं 33 मार्गपरिशुद्धिप्रकरणंसटीकम् |

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112