Book Title: Margparishuddhi Prakaranam
Author(s): Kulchandrasuri
Publisher: Bhidbhanjan Parshwanath Jain Sangh

View full book text
Previous | Next

Page 62
________________ टीका- मध्यस्थाः सर्वत्राऽरक्तद्विष्टत्वेनाऽसद्ग्रहमुक्ताअत एव शुद्धाशया: प्राय आसन्नभव्याः, बुद्धियुता वस्तुगतगुणदोषान् गम्भीरतया प्रपद्यन्ते, प्राप्ताः पुनरावश्यकादिसूत्रस्य यावत् सूत्रकृताङ्गं यैरधीतमित्यर्थः, धर्मार्थिनश्च प्रियधर्मा अवद्यभीरवश्च चशब्दात् परिणामकादिपरिग्रहः, योग्याः प्रवचनार्थश्रवणस्य स्युः। अत एव तेषु व्याख्यातृपरिश्रमः सफलो भवति। एवम्भूता उत्सर्गापवादयोर्विषयविभागं सम्यक् परिणमयन्ति। अतिपरिणामकाऽपरिणामकानां तु कर्मदोषादहितमेव विज्ञेयं दोषोदये औषधतुल्यं विपर्ययकारीति तेभ्यस्तेषां हितार्थमेव व्याख्यानं न कुर्यादिति श्रीपूज्या आहुः - आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ / इअसिद्धंतरहस्सं, अप्पाहारं विणासेइ / / 982 ।।पंच-वस्तुके। अतो योग्येभ्यो विनेयेभ्य उपसम्पन्नेभ्यश्च यथाविधि व्याख्यानं कुर्यादिति। अथ विधिमाह - इह व्याख्यानप्रक्रमे मौनीन्द्रप्रवचने वा मार्जनादिपूर्वंमार्जनं व्याख्यानस्थानस्य आदिपदानिषद्या गुर्वादः, अक्षा उपनीयन्ते, कृतिकर्माऽऽचार्याय, कायोत्सर्गोऽनुयोगार्थं वन्दनं ज्येष्ठविषयम्, इह भाषमाणो भवति ज्येष्ठः, न तु पर्यायेण, ततो वन्देत तमेव। तदुक्तं च मज्जण निसिज्ज अक्खा, किइकम्मस्सग्ग वंदणं जितु / . भासंतो होइ जिट्ठो, न उ पज्जाएण तो वंदे / / 1001 / / (पञ्चवस्तुके) ततो विषयप्रज्ञापना च व्याख्यानविषयकथनं च विधिरिति / / 149 / / अथ व्याख्यातारमाश्रित्याह - व्याचक्षीत समभावं श्रोतुः परिभाव्य योग्यताभेदम् / अपि दृष्टिवादभेदं निर्मूढं वा तत: सूत्रम् / / 150 / / टीका - व्याचक्षीत व्याख्येयं समभावं मैत्री जगज्जीवेषु मोक्षमूलम् उपलक्षणात् तत्कार्यमहिंसादिकं यदि वा क्रियाविशेषणमेतत्, तथा च - यथा शिष्याणां तथैवोपसम्पन्नानामपि व्याचक्षीतेति। तथा - श्रोतॄणां यथाऽवगमो 'जायते आगमिकवस्तु आगमेन यथा स्वर्गेऽप्सरस: उत्तरा: कुरव इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव यथा देहमात्रपरिणाम्यात्मेत्यादि, यदुक्तं च - जो हेउवायपक्खम्मि हेउओ आगमे अआगमिओ। सो ससमयपण्णवओ, सिद्धंतविराहओ अन्नो / / 993 / / पञ्चवस्तुके। __ श्रोतुः श्रवणायोपस्थितस्य योग्यताभेदं तीव्रमन्दादिक्षयोपशमविशेषं परिभाव्य विचिन्त्य व्याख्यानं कुर्यात्। योग्यतरान् वा शिष्यान् ज्ञात्वा दृष्टिवादभेदमपि व्याख्यानयितव्यं, ततो वा दृष्टिवादाद्वा नियूंढम् समुद्धृतं नन्दीस्तवपरिज्ञादि सूत्रम् अल्पाक्षरत्वे सति बह्वर्थसूचकमिति / / 150 / / नियूंढलक्षणमाह - सम्यग्धर्मविशेषो यत्र कषच्छेदतापपरिशुद्धः / कथितस्तन्नियूढं वरश्रुतं स्तवपरिज्ञादि / / 151 / / महामहोपाध्याय श्री यशोविजय विरचितं 53 मार्गपरिशुद्धिप्रकरणंसटीकम् |

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112