Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२२-२८]
पाठक श्री जय सोमविरचित
बोहित्थो गङ्गदासश्च जयसिंहश्च तेष्वपि । बहरङ्गदेवी रामा रम्या बोहित्थभूपतेः ॥ २२
व्याख्या - बोहित्थो गङ्गदासो जयसिंहश्चैते त्रयः पुत्राः । तेष्वपि पुत्रेष्वपि मध्ये बोहित्य भूपतेर्बोहित्थनामभूभर्त रम्या मनोहरा शीलादिगुणोपेता बहरङ्गदेवी रामा जाया बभूवेति क्रियाध्याहारः कार्यः ॥ २२
यन्नानाऽद्यापि तद्वंश्याः प्रसिद्धाः सन्ति सर्वतः । सुधर्माणो हि बोहित्थहरा इत्यभिधानतः ॥ २३
व्याख्या - यन्नाम्ना यस्य बोहित्यस्य नाम्ना अभिधानेन अद्यापि एतत्कालेऽपि 'बोहित्थहरा' इत्यभिधानतो बोहित्यहरा इत्युखेन तद्वंश्यास्तस्य सागरस्य वंशोत्पन्नाः सुधर्माण: शोभनधर्मवन्तः सर्वतः सर्वासु दिक्षु प्रसिद्धा विख्याताः सन्ति विद्यन्ते । हीत्यवधारणे ॥ २३
अष्टौ पुत्रा बभुस्तस्य श्रीकर्णः प्रथमो मतः । जेसाता ल्हाजगन्मल्लभीमाह्राश्च तथाऽपरे ॥ २४ सोमसीः पुण्यपालश्च पद्माह्नः पुत्रिका पुनः । पद्मेति च समाख्याता शीलादिगुणशालिनी ॥ २५
Jain Education International
व्याख्या - तस्य बोहित्थस्य भूपतेरष्टौ पुत्रा बभुः शुशुभिरे । तानेव नामतः प्राह - प्रथम आयः श्रीकर्णः मतः सम्मतः । ‘मतं तु सम्मतेऽर्चिते' । सम्मते वाच्यलिङ्गः । तथा अपरे अन्ये जेसा - ताल्हा- जगन्मल्ल- भीमाह्वाः सोमसीः " पुण्यपालः पद्माह्नः पद्मनामा । पुत्रिका सुता पुनः पद्मेति च समाख्याता कथिता । किम्भूता ! शीलादिगुणशालिनी शीलादिगुणैः शालते शोभत इत्येवंशीला । अथवा शीलादिगुणान् शालते श्लाघत इत्येवंशीला शीलादिगुणशालिनी । 'शाल कत्थने ।' या हि शीलादिगुणोपेता भवति सैव तान् गुणान् श्लाघते । दुःशीला हि शीलवतीर्न वर्णयन्ति । उक्तं च'मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां सतीजनाः ॥' इति ॥ २५ बोहित्थो भूधवश्चित्रकूटाख्ये नगरेऽन्यदा । राजश्रीराजसिंहाग्रेऽरिभिः कृत्वा महारणम् ॥ २६
एकादशशतोदग्रवीरपूरुषसंयुतः ।
प्राप्तः प्राप्तजयः स्वर्गं दुष्प्रापं किं महात्मनाम् ? ॥ २७ युग्मम् ॥
10
व्याख्या – अन्यदा अन्यस्मिन् काले, बोहित्थो भूधवो राजा चित्रकूटाख्ये नगरे राजश्रीराजसिंहाग्रे नृपश्रीराजसिंहस्य पुरतोऽरिभिः सार्धं महारणं महायुद्धं कृत्वा विधाय, एकादशशतोदग्रवीरपुरुषसंयुतः शताधिकसहस्रोत्कटशूरनर सहितः प्राप्त - 25 जयो लब्धजयः स्वर्गं सुरालयं प्राप्त आसेदिवान् । यतो महात्मनां महापुरुषाणां किं दुष्प्रापं दुर्लभम् ? अपि तु सर्वमपि कामितं ते लभन्त इत्यर्थः ॥ २७
तदनु श्रीकर्णनृपो रत्नादेवीशुभाग्रमहिषीयुक् ।
राज्यं शशास पित्र्यं पितेव पुत्रं विनीताङ्गम् ॥ २८
20
व्याख्या - तदनु बोहित्यनृपात्पश्चाद् रत्नादेवीति रत्नादेव्यभिधाना शुभा कल्याणकारिणी या अग्रमहिषी पट्टराज्ञी " तां युनक्ति समाधिमादधाति । तया सह युक्तो भवतीति वा । रत्नादेवीशुभाग्रमहिषीयुग् । 'युजिंचू' समाधौ 'युजूंपी' योगे च । श्री कर्णनृपः । पित्र्यं पितुरिदं पित्र्यम् । 'वाय्वृतुपिनुषसो यत्' इति यत् । शशास ररक्ष पालयामासेति यावत् । कः कमिव ? पिता जनकः पुत्रमिव । यथा पिता पुत्रं विनीताङ्गं विनयेन नम्रशरीरं शास्ति तथा शशासेति भावः ॥ २८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122