Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५६
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[३४१-३४७ प्रसादात् पार्श्वनाथस्य गुरोश्च कुशलप्रभोः । साहेर्जलालदीनस्य श्रुतदृष्टगुणावलेः ॥ ३४१ महाराजाधिराजश्रीराजसिंहनिजप्रभु-। प्रेषिताप्तजनोत्कृष्टफुरमानसमन्वितम् ॥ ३४२ समाजगाम सप्रेमप्रसादवचनाद्भुतम् ।
फुरमानं त्वयाऽत्रागन्तव्यमेवेति भाववत् ॥ ३४३ - त्रिभिर्विशेषकम् । व्याख्या- यस्येत्यध्याह्रियते यस्य श्रीकर्मचन्द्रस्य, पार्श्वनाथस्य प्रसादादनुग्रहात् , च पुनः कुशलप्रभोर्गुरोः प्रसादात् , जलालदीनस्य साहेरकबरस्य 'हे मन्त्रिन् ! त्वया अत्र मत्समीप आगन्तव्यमेव' इति भाववदित्यभिप्राययुक्तम् , फुर
मानमादेशपत्रम् , समाजगाम । किम्भूतस्य साहेः ! श्रुता-कर्णाभ्यामाकर्णिता, पुरा राजसिंहनृपमुखात्, दृष्टा च चक्षु10 ामवलोकिता, गुणावलिर्दाक्ष्यदाक्षिण्यसौजन्योदात्तत्वादिगुणराजियन स श्रुतदृष्टगुणावलिस्तस्य श्रुतदृष्टगुणावलेः । किम्भूतं फुरमानम् ! महाराजाधिराजश्रीराजसिंहाख्यो यो निजप्रभुः खखामी, तेन प्रेषिता मन्त्रिणमाकारयितुं मुक्ता य आप्तजना अविसंवादिवाक्यवक्तारस्तैः सह उत्कृष्टं प्रधानं यत्स्वीयं फुरमानं तेन समन्वितं राजसिंहपुरमानयुतम्, साहिफुरमानमागच्छदित्यर्थः । इह 'समाप्तमिव पूर्वार्धे कुर्यादर्थप्रकाशनम्' इति कविसमयमुल्लङ्घय पादचतुष्टयेऽपि संलग्नस्यैव समासस्य करणाद् दोषशका न करणीया । महाकविप्रयोगेषु क्वचित् तथा दर्शनात् । यथा
'पुरःसुरतसंरम्भरसद्विगुणितच्छवि-पार्वतीवदनालोकलालसः पश्य शङ्करः ॥' इति । पुनः किम्भूतम् ! सप्रेम प्रेमसहितं यत् प्रसादवचनमनुग्रहवाक्यं तेन अद्भुतमाश्चर्यकारि ॥ ३४१ - ३४२-३४३
समादाय महायोधानायोधनरसोद्धरान् । तुरगानेकपानेकपदातिततिसंयुतः ॥ ३४४ समायातो महामन्त्री महा शकुनैः शुभैः।
अजमेरी गुरुस्तूपयात्रा कतु समाहितः॥३४५-युग्मम् । व्याख्या-महामन्त्री महाधीसखः श्रीकर्मचन्द्रः, समाहितः समाधानोपेतः, महा महालक्ष्म्योपलक्षितः, शुभैः प्रयाणं प्रत्यनुकूलैः, शकुनैर्दैवशंसिनिमित्तैः, अजमेरौ गुरोः श्रीजिनदत्तसूरेयः स्तूपः - उच्छ्रितो मृदादिविकारःतस्य या यात्रा तां कर्तुं समायातः समाययौ । किं कृत्वा ? आयोधनं रणं तत्र यो रसो रागस्तेनोद्धरान् तुङ्गान् महायोधान् महासुभटान्, सह आत्मना सममादाय गृहीत्वा; तथा तुरगान् वाजिनः सह आदाय; तथा अनेकपान् हस्तिनः सह ४ आदाय । किम्भूतो महामन्त्री ! अनेके बहवो ये पदातयः पत्तयस्तेषां या ततिः श्रेणिस्तया संयुतः सहितः अनेकपदातिततिसंयुतः ॥ ३४४-३४५
क्रमाल्लाभपुरं लेभे लाभाय विहितोद्यमः।
अविच्छिन्नप्रयाणेन प्रीणितप्राणिसन्ततिः ॥ ३४६ व्याख्या-मन्त्री अविच्छिन्नप्रयाणेन अविश्रान्तगमनेन, क्रमात् क्रमेण, लाभपुरं लेमे प्राप । किम्भूतः ! लाभाय विशिष्टवस्तुप्राप्तये विहितः कृत उद्यमः प्रयात्रा येन स विहितोधमः । पुनः किम्भूतः! प्रीणिता तोषिता प्राणिसन्ततिर्भक्तजनश्रेणिर्येन स प्रीणितप्राणिसन्ततिः ।। ३४६
विना प्रयासमेवासौ विनापि परसेवनम् ।
श्रीसाहेर्दर्शनं प्राप पुण्ययोगाच्छुभेऽहनि ॥ ३४७ व्याख्या- असौ महामन्त्री, प्रयासमायासं विनैव, तथा परस्य उम्बरादेः सेवन सेवा विनाऽपि, विनायोगे द्वितीया, 5 पुण्ययोगात् सुकृतसंयोगात् , शुमे कल्याणेऽहनि दिवसे, श्रीसाहेरकबरस्य दर्शनं प्राप ॥ ३४७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122