Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 91
________________ 3 मनिकर्मचन्द्रवंशावलीप्रबन्ध । [ ५१० - ५१२ व्याख्या - तदनु श्रीजिनचन्द्रसूर्यनन्तरम्, अभय इत्यादिमः प्रथमो येषां देवानां त अभयादिमा देवा अभयदेवा इत्यर्थः जाताः । यैः श्रीअभयदेवसूरिभिः, विशुद्धा निर्मला या घीर्बुद्धिस्तस्या निधयो निधानानि तैर्विशुद्धघीनिधिभिः, शासनसूरिप्रभावाच्छासन देवतामाहात्म्यात्, अभिनवा नव्या नवाङ्गीविवृतिः स्थानाङ्गादिसिद्धान्तनवकविवरणं विदधे विहिता । अत्रायं सम्प्रदायः - श्रीजिनेश्वरसूरिभिः स्वशिष्यौ जिनचन्द्राभयदेवौ खपदे स्थापितौ । क्रमेण युगप्रवरौ जातौ । अन्यौ च द्वौ श्रीजिनभद्र - हरिभद्राचार्यौ कृतौ । धर्मदेव - सुमति - विमलनामानस्त्रयः पाठकाः कृताः । धर्मदेवोपाध्याय - सहदेवगणी द्वावपि भ्रातरौ सोमचन्द्रपण्डितश्च शिष्याः कृताः, तैः श्रीजिनेश्वरसूरिभिराशापल्ल्यां लीलावतीप्रन्यश्चके । डिण्डियाणका प्रातैः पूज्यैर्व्याख्यानाय चैत्यवास्याचार्याणां पार्श्वाद्याचितः पुस्तकः । तैः कलुषितहृदयैर्न दत्तः । ततः पश्चिमप्रहरद्वये विरच्यते प्रभाते व्याख्यायते । इत्थं कथानककोशश्वतुर्मास्यां कृतः । श्रीजिन [ शासन ] प्रभावनां कृत्वा श्रीजिनेश्वरसूरयो दिवं जग्मुः । 10 ततः श्रीजिनचन्द्रसूरिभिरष्टादशसहस्रप्रमाणा संवेगरङ्गशालाकथा कृता । स्वर्गश्चालंकृतः । ततः श्रीअभयदेवसूरिर्नवाङ्गीवृत्तिकर्ता युगप्रधानोऽभवत् । यद्यपि 'पूरणगुणे' त्यादिना षष्ठीसमासनिषेधात् तदन्वित्यत्र समासश्चिन्त्यः, तथापि तदनु तदुपरीत्यादयः शब्दाः ससमासा महाकविनिबद्धत्वात् साधवः ॥ ५०९ 15 ८२ श्रीजिनवल्लभसूरिस्ततोऽभवद् व्रतधुरैकधौरेयः । चण्डाsपि हि चामुण्डा यत्सान्निध्यादचण्डाऽभूत् ॥ ५१० व्याख्या - ततः श्रीअभयदेवसूर्यनन्तरम्, श्रीजिनवल्लभ सूरिरभवत् । किम्भूतः ? व्रतस्य धूः व्रतधुरा षष्ठीति समासः । अत्र भारवाची धूः शब्दः । 'ऋक्पूरब्धूः पथामानक्षे' इत्यप्रत्ययः समासान्तः । धुरस्तु अनक्षे राजधुरेतिवत् । अक्ष तु अक्षधूर्दृढधूरक्षः । तस्या वहन एकोऽद्वितीयो धौरेयो धुर्यो व्रतधुरैकधौरेयः । हि स्फुटम् यस्य श्रीजिनवल्लभस्य सान्नि ध्यात् प्रभावात्, चण्डाऽप्यत्यन्तकोपनाऽपि चामुण्डा अचण्डा प्रसन्नहृदयाऽभूत् । अत्र सम्प्रदायः - एकदा श्रीजिनवल्लभसूरयश्चित्रकूट परिसरे श्रीसन प्रवेशके कृते चामुण्डादेवगृह उत्तारिता गुरवो 20 बहिर्भूमौ गताः । एकेन वर्तनकेन चक्षुषी निष्कासिते । चामुण्डया रुष्टया क्षुल्लनेत्रे गृहीते। गुरवोऽप्यायाताः । पीडितः क्षुल्लः पृष्ट उक्तवान् खरूपम् । गुरुभिर्ध्यानेन साऽऽकृष्टा प्रतिबोधिता च । उक्तं च- - 'क्षुल्लो भोल्कः क्षम्यं देवते ! ।' ततस्तया पुरमध्ये खट्टिकगृहे छलकनेत्रे निष्कास्य क्षुल्लस्य नेत्रे कृते । ततः श्रीजिनवल्लभसूरयश्चामुण्डाप्रतिबोधका जाताः ॥ ५१० तत्पद्देऽभूचतुःषष्टियोगिनीनां प्रसाधकः । युगप्रधानतामाप्तः सूरिः श्रीजिनदत्तराट् ॥ ५११ व्याख्या - तेषां श्रीजिनवल्लभसूरीणां पट्टे, चतुःषष्टियोगिनीनां प्रसाधकः सूरिः श्रीजिनदत्तराडभूत् । उज्जयिन्यां पीठं १ योगिनीनाम्, डिल्ल्यां द्वितीयम्, अजयमेरौ तृतीयम्, अर्ध भृगुकच्छे - एवं सार्धपीठत्रये योगिनीचक्रमसाधयज्जिनदत्तसूरिरित्यादयः प्रवादा गणधर सार्द्धशतकबृहद्वृत्तितो बोद्धव्याः । किम्भूतः ! युगप्रधानतामाप्तः प्राप्तः । देवता यद्युगप्रधानत्वं प्रत्यपादीति भावः ॥ ५११ अथ श्रीजिनदत्तसूरेर्नाम्नोऽपि सप्रभावतामुद्भावयन्नाह - भूतप्रेततडिदुव्यालवेतालादि भयान्यपि । यन्नाम्ना निम्नतां यान्ति भक्तानामिह साम्प्रतम् ॥ ५१२ व्याख्या - इह जगति, साम्प्रतमधुनाऽपि, यस्य श्रीजिनदत्तसूरेर्नाम्नाऽभिधानेन, भक्तानां सेवकानाम्, भूतप्रेत - तडिया लवेतालादीनाम्, भयानि निम्नतां नीचैस्त्वं यान्ति प्राप्नुवन्त्युपशाम्यन्तीत्यर्थः ॥ ५१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122