________________
१७ सर्गः]
हीरसौभाग्यम् ।
८९१
ताद्याः पञ्चेन्द्रिया जीवा आलेख्ये चित्रे शेषत्वमवशिष्टतां न तु प्राणेनतामवापिता मा. रिताः । तथा कैवर्तकेनेव धीवरेणेव पयश्चरा जलचारिणो जीवास्ते पञ्चेन्द्रिया मत्स्यनकचक्रपाठीनपीठपाहमकरायाः कथासु वार्तासु आख्यानसंबन्धेषु शेषलमवशिष्टतामवापिता लम्भिताः । निहता इत्यर्थः । हिंसायां सर्वत्र जन्मान्तरापादनम् । अस्मिन् जन्मनि तु संयतलात्तदभाव एवेति तात्पर्यम् ॥
अर्हन्निदेशादितसान्द्रचन्द्रचन्द्रातपोद्वेलकृपापयोधौ । मीनायमानेन मुनीन्दुनेव स्वात्मेव नामानि गणोऽङ्गभाजाम् ॥१३७॥ पुनर्मया अङ्गभाजां प्राणिनां गणः समूहःखात्मेव निजजीव इन नामानि न गणितः । इदमपि प्राग्जन्मापेक्षयैव नास्मिअन्मनीति शेषः । तदेव वक्ति-केनेव । मुनीन्दु. नेव । यथा वैराग्यरङ्गतरङ्गितात्मना साधुसुधाकरेण अन्यतनूमनिकरः निजजीवसदृशो गण्यते । किंभूतेन । मुनीन्दुना अर्हतां सर्वतीर्थकृतां निदेश आज्ञा स एवोदित उदयं प्राप्तः सान्द्रस्नेहलोऽमृतवर्षी आश्विनपूर्णिमासंबन्धी चन्द्रः अखण्डमण्डलेन्दुस्तस्य चन्द्रातपश्चन्द्रिका तेनोद्वेलो वेलामुल्लङ्ग्य यात उद्वेल उत्कण्ठितो यः कृपारूप: पयोधिस्तत्र मीनो मत्स्य इवाचरितस्तेन । दयाहृदयेनेत्यर्थः ॥ इति प्रथमव्रते प्राकृतजी. वहिंसालोचनम् ॥
अमर्षणेनेव रुषा हसेन वैहासिकेनेव च भीरुणेव । भयेन लोभेन च गृचनेक मया यदप्यल्पमजल्प्यलीकम् ॥ १३८ ॥ यन्मया इह भवे परभवे वा यदल्पं स्तोकमप्यलीकं मिथ्यावाक्यमजल्पि भाषितम् । कया । रुषा रोषेण । केनेव । अमर्पणेनेव क्रोधनेनेव । यथा क्रोधातुरेण क्रोधेनालीकं जलप्यते 1 पुनः केन । हसेन हास्येन । केनेव । वैहासिकेनेव । यथा खभावातिभीरुकेण मृषा भाष्यते । च पुनः केन । लोभेन तृष्णया । केनेव । गृभुनेव । यथा लोलुभेन लोभाभिभूतेनासत्यं निगद्यते ॥ इति द्वितीयव्रते मृषावादालोचनम् ॥ .. ऋक्थं परेषां परिमोषिणेव मया कथंचिद्यददत्तमात्तम् । . प्रयोजने सत्यपि यत्तृणाद्यं क्वचिद्विनादेशमुपाददे च ॥ १३९ ॥ • यन्मया कथंचित्केनापि प्रकारेण अदत्तं केनापि स्वामिना अविश्राणितं परेषामन्येषामृक्थं दविणं धनमात्तं गृहीतम् । केनेव । परिमोषिणेव । यथा तस्करेणादत्तं परद्रव्यमान दीयते । च पुनः प्रयोजने कार्ये सत्यपि विद्यमानेऽपि कृत्ये आदेशं खाम्यखामिनो अनुज्ञां विना तृणाद्यं तृणशलाकाप्रमुख क्वचित्कुत्रापि स्थाने उपाददे जगृहे स्वयं खीकृतम् ॥ इति तृतीयव्रते अदत्तादानालोचनम् ॥
मरुन्मृगाक्ष्या मरुतेव दिव्यं नार्या नरेणेव च मानवीयम् । मया तिरश्चैव पुनस्तिरश्चा तैरश्चमाचर्यत मैथुनं यत् ॥ १४ ॥