Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वचनं ? सुभाषितं संवेगजनकं, किंवत् १ अङ्कुशेन यथा नागो हस्ती, एवं धर्मे सम्प्रतिपादितो धमें स्थापित इत्यर्थः १० एवमिति - एवं कुर्वते कुर्वन्ति, के ? संबुद्धा बुद्धिमन्तः, अथवा सम्यग्दर्शनसहितेन ज्ञानेन ज्ञातविषयस्वभावाः सम्य दृष्टय इत्यर्थः पुनः किंविशिष्टाः ? पण्डिता वान्तभोगासेवनदोषज्ञाः पुनः किंविशिष्टाः ? प्रविचक्षणाः पापभीरवः, किं कुर्वन्ति ते इत्याह- निवर्तन्ते दूरीभवन्ति, केभ्यः ? भोगेभ्यो विषयेभ्यः क इव ? यथासौ पुरुषोत्तमो रथनेमिः, शिष्य आह- ननु कथं तस्य पुरुषोत्तमत्वं यो हि गृहीतदीक्षोऽपि विषयाभिलाषी जातः ? उच्यते - तथाविधेऽभिलाषे जातेऽपि नासौ प्रवृत्तः, कापुरुषस्तु
एवं करंति संबुद्धा पंडिया पवियक्खणा । विणियति भोगेसु जहा से पुरिसुत्तमो तिवेमि ११. सामन्नपुब्वियज्झयणा संमत्ता २.
संजमे सुठियप्पाणं विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं निग्गंथाण महेसिणं १.
Acharya Shri Kailassagarsuri Gyanmandir
तदनुरूपं चेष्टत एवेति इति पूर्वोक्तप्रकारेण ब्रवीमि न स्वबुद्धया, किन्तु तीर्थकरगणधराणामुपदेशेन. ११. इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयमुन्दरोपाध्यायविरचितायां द्वितीयमध्ययनं समाप्तम् । व्याख्यातं श्रामण्यपूर्वकारूयं द्वितीयमध्ययनं क्षुल्लकाचारकथाख्यमथ तृतीयमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - द्वितीयाध्ययने इत्युक्तं नवदीक्षितेन संयमेऽधृतात्पन्नायामपि धृतिमता भाव्यम् अत्र तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसं
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 240