Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्य०१. दश दीपि० | यमोपायः. उक्तं च-"तस्यात्मा संयतो यो हि सदाचार रतः सदा । स एव धृतिमान् धर्म-स्तस्यैव हि जिनोदितः१.” इत्यनेन | सम्बन्धनायातमिदमध्ययनं व्याख्यायते-तत्रसूत्रम्-संयमेइति संयमे सुस्थितः शोभनप्रकारेण सिद्धान्तरीत्या स्थित आत्मा येषां || KA तेषां, किंविशिष्टानां? विप्रमुक्तानां विविधमनेकप्रकारैः प्रकर्षेण संसारान्मुक्तानां, पुनः किंविशिष्टानां ? तायिना, वायंते आत्मानं परमुभयं च ये ते त्रातारस्तेषाम, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, उभयं स्थविराः, तेषामिदं वक्ष्यमाणलक्षणमनाचीर्ण || मनाचरितमकल्पं, केषामित्याह-निर्ग्रन्थानां साधूनां, किंविशिष्टानां? महर्षीणां महतां यतीनाम् १. सांप्रतं.यत्पूर्वोक्तमनाचरितं |तदेवाह-उद्देसियमिति-साधुमुद्दिश्यारम्भण भवमीदेशिकं-(१) क्रयणं साध्वादिनिमित्तं क्रीतं तेन कृतं निर्वर्तितं क्रीतकृतं. उद्देसियं कीयगडं नियागमभिहडाणि य । राइभत्ते सिणाणे य गंधमल्ले य वीयणे २. (२) नियागमामंत्रितस्य पिण्डस्य ग्रहणं. (३) अभिहडं स्वकीयग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थ. रात्रिभुक्तं रात्रिभोजनं, दिवसगृहीतं दिवसभुक्तं रात्री सन्निधिरक्षणेन, दिवसगृहीतं रात्रिभुक्तं, रात्रौ गृहीतं दिवसभुक्तं, रात्रौ गृहीतं रात्रौ भुक्तम्, इति भेदचतुष्टयलक्षणं. स्नानं देशसर्वभेदभिनं, तत्र देश| स्नानं शौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि. सर्वस्नानं तु प्रतीतमेव. गन्धमाल्यं च गन्धग्रहणात्कोष्टपुटादिपरिग्रहः माल्यग्रपाणाञ्च प्रथितवेष्टितादेाल्यस्य परिग्रहः, वीजनमुष्णकाले लालवृन्तादिना, इदमनाचरितं. दोषाश्चेहारम्भप्रवर्तनादयः स्वयं बुद्धया वाच्याः. २. पुनरिदमनाचरितम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 240