Book Title: Vruttaratnakar
Author(s): Kedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
Publisher: Jai Krishna Das Hari Das Gupta

View full book text
Previous | Next

Page 9
________________ भूमिका । जयति वाऽध्यापयति वा स स्थाणुं वर्च्छति गर्ने वा पद्यते प्रमीयते वा पापीयान् भवति यातयामान्यस्य च्छन्दांसि भवन्ति" इति । एवं च त्रैवर्णिकानां छन्दोज्ञानं नितरामपेक्षितमिति सिद्धम् । तदितरेषामपि लौकिकव्यवहारोपयोगाय छन्दोज्ञानमपेक्ष्यते। यथा वेदवाणी पद्यात्मिका तथा लोकवाण्यपि पचवती भवति । तस्मात् सर्वेषां छन्दो मानमपेक्षितमित्यपि सिद्धम् । अत एव छन्दःशास्त्रे लौकिकवैदिकभेदेन वैविध्यं पिङ्गलादिभिः प्रतिपादितम् । इदमेव मनसि विभाव्य अद्यावधि बहुभिश्छन्दःशास्त्रविद्भिः प्रणीताश्छन्दोग्रन्थास्तत्र तत्र विलसन्ति । छन्दःशास्त्रं शिवादिक्रमेणाऽत्र समायातमिति श्रूयते । तथा हि यादवप्रकाशाऽभिधायां छन्दःसूत्रटीकायाम्छन्दोज्ञानमिदं भवाद्भगवतो लेभे सुराणां पति स्तस्माद्दुश्च्यवनस्ततः सुरगुरुर्माण्डव्यनामा ततः ॥ माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्ततः पिङ्गल..... स्तस्येदं यशसा गुरोर्भुवि धृतं प्राप्याऽस्मदाद्यैः कृतम् ॥ इति । यत् किमपि वा भवतु परमिदानी छन्दोग्रन्थेषु सर्वप्रथमतया पिङ्गलमुनिप्रणीतः सूत्रामा छन्दोग्रन्थः समुपादीयते । तन्मूलभूताश्चाऽन्ये सर्वेऽपि च्छन्दोग्रन्थाः। पिङ्गलमुनिना हि निजपूर्वजच्छन्दःशास्त्रप्रणेतृणां काश्यपसैतवादीनां स्वप्रन्थे समुल्लिखितानि नामानि, परमिदानीं न तेषां केषामपि कोऽपि निबन्धः समुपलभ्यते। पिङ्गलसूत्रेषु च बहयष्टीका अपि सन्ति । तत्र हलायुधभट्टप्रणीता मृतसञ्जीवन्यभिधा टीका सर्वतो लब्ध. प्रचार साम्प्रतं बहुशो मुद्रिता सर्वजनसुलभैव । छन्दोग्रन्थेषु च केचि. केवललक्षणबोधका निबन्धाः सूत्रादयः केचित् केवललक्ष्यबोधका वृत्त्या. दय इति विचार्य तत्र भवता महनीयकीर्तिना महामहिमशालिना छन्दोममन केदारभट्टेन सहैव लक्ष्यलक्षणप्रतिपादकः अल्पायासेन च छन्दोमा नाय वृत्तरत्नाकरनामा निबन्धः प्राणायि । वैदिकच्छन्दःसु त्रैवर्णिकमा. प्राणामेवाऽधिकारात् लौकिकच्छन्दःसु च सर्वेषामधिकारात् वैदिकच्छन्दोनिरूपणं विहाय लौकिकच्छन्दसामेवात्र निरूपणं कृतम्। सोऽयं वृत्तर नाकरः सर्वेष्वपि छन्दोनिबन्धेषु सातिशयं लब्धप्रचारः सर्वत्रेदानीं सटीको निष्टीकश्च बहुवारं मुद्रितः पठनपाठनादिषु मुख्यतया समाद्रियमाणस्तत्र तत्र परीक्षापाठ्यग्रन्थत्वेनाऽपि निर्धारितः सर्वत्रैव लभ्यते। अत एवाऽस्य पञ्चविंशत्यधिकाष्टीकाः श्रयन्ते । अनेनैवाऽस्य लोकोपकारित्वमनुमातुं शक्यते । समुपलभ्यमानटीकासु भट्टनारायणभट्टप्रणीता टीकैवाऽनतिवि. स्तुततयाऽनत्यल्पतया च प्रन्थरहस्यं यथावत् सरलतयाऽवबोधयन्ती

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 306