Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 93
________________ तिलकमञ्जरी । पक्तिभिः परिवारितप्रान्तासु प्रासादशिखरमालासु प्रावृषि कृतस्थितयो ग्रीष्मकालपरिभुक्तानामुपवनोपरुद्धपर्यन्तभुवामघस्तनभूमिकानां नोदकण्ठन्त सुकृतिनः [ त ], यस्यां च जलधरसमयनिर्धोतरेणुपटल निर्मलानामुदमसौधा पद्मरागप्राव्णां प्रभाभिरनुरञ्जितः शरस्कालरजनीषु पौरजनीवदनपराजयलज्जया प्रतिपन्नकाषाय इव व्यराजत पार्वणो रजनिजानिः [ थ ], यस्यां च तुषारसम्पर्कपटुतरैस्तरुणी कुचो ष्मभिरितस्ततस्ताड्यमाना हैमनीष्वपि क्षणदास्वमन्दीकृतचन्दनाङ्गरागगौरवमदत्ताङ्गारशकटिका सेवादरमष्टकेलिवा पिकापङ्कजवनमवुः प्रभञ्जनाः [द], यस्यां च वीथीगृहाणां राजपथातिक्रमः, दोलाक्रीडासु दिगन्तरयात्रा, कुमुदखण्डानां राज्ञा सर्वस्वापहरणम्, ५७ रजनिजानि: चन्द्रः [थ ] । राजपथातिक्रमः नृपमार्गोल्लङ्घनम् राज्ञा चन्द्रेण सर्वखापहरणं सकलनिद्रा " www प्रावृषि वर्षत, मुदितगृह शिखण्डिके कारवमुखरिताभिः मुदितानां - जलदध्वनिहृष्टानाम्, गृहशिखण्डिनां-विलासो'त्सवाय गृहरक्षितमयूराणाम्, केकारवैः - केकात्मकशब्दैः, मुखरिताभिः - ध्वनिताभिः, तरुणजलदपङ्गिभिः तरुणानांसलिलसम्भारोजितानाम्, जलदानाम्, पतिभिः - श्रेणिभिः परिवारितप्रान्तासु अवरुद्धासन्न प्रदेशासु, प्रासादशिखरमालासु राजभवनोर्ध्व भूमिकामण्डलेषु, कृतस्थितयः विहितावस्थानाः सन्तः, ग्रीष्मकालपरिभुक्तानां ग्रीष्मऋतूपभुक्तसुखानाम्, उपवनोपरुद्धपर्यन्तभुवां क्रीडावनाक्रान्तप्रान्तभूमीनाम्, अधस्तनभूमिकानां नीचैस्तनप्रासादखण्डानाम्, तेषु निवस्तुमित्यर्थः, नोदकण्ठन्त नैच्छन् [ त ] । च पुनः, यस्यां नगर्याम्, शरत्कालरजनीषु शरदृतुरात्रिषु, जलधरसमयनिर्धोतरेणुपटलनिर्मलानां जलधरसमयेन - वर्षाकालेन निधौतै:- सलिलधारया प्रक्षालितैः, रेणुपटलैःधूलीकलापैः, निर्मलानां - कलितचाकचक्यानाम्, उदग्रसौधात्र पद्मरागश्रावणाम् उदग्राणाम् उन्नतानाम्, सौधान:-- प्रासादानाम्, अप्रे - उपरि, ये पद्मरागप्रावाणः- तत्संज्ञकमणिमयपाषाणविशेषाः, तेषाम्, प्रभाभिः दीप्तिभिः, अनुरञ्जितः मिश्रितः, पार्वणः पूर्णिमाभवः, रजनीजानिः रजनी रात्रिर्जाया भार्यावदुल्लास्या यस्यासौ चन्द्र इत्यर्थः, पौरजनीवदनपराजयलज्जया पौरजनीनां-नागरिकनारीणाम्, वदनैः - शरदिन्दुसमधिकसुन्दरमुखैः, यः पराजयः - तिरस्कारः, तल्लज्जया, प्रतिपन्नकाषाय इव धृतरक्तरूप इवेत्युत्प्रेक्षा, व्यराजत विशेषेणादीप्यत । "काषायोऽथ सुरभौ लोहितेऽन्यवत्" इति विश्वः [r] पुनः, यस्यां निरुक्तनगर्याम्, हैमनीष्वपि हेमन्तकालिकीष्वपि, क्षणदासु रजनीषु, तुषारसम्पर्कपटुतरैः तुषारसम्पर्केण हिमसम्पातेन, पटुतरैः - उत्कटतरैः, तरुणी कुचोष्मभिः युवतिस्तनोष्णगुणैः, "कूपोदकं वटच्छाया श्यामा स्त्री चेष्टकागृहम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम्” ॥ इत्यनुभवात् इतस्ततः सर्वतः ताड्यमानाः आहन्यमानाः, उष्णतामापाद्यमानाः प्रभञ्जनाः महावाताः, अमन्दीकृतचन्दनाङ्गरागगौरवं चन्दनेन-रक्तचन्दनेन, योऽङ्गरागः - गण्डस्थलायजरञ्जनम् तस्य यद् गौरवं - बाहुल्यम्, तदमन्दीकृतं न मन्दीकृतं वायूपनीतोष्मसत्वेन न न्यूनीकृतम्, किमुत सर्वथा परित्यक्तं यत्र तद् यथा स्यात्तथा, एवम् — अदत्ताङ्गारशकटिकासेवादरम् अदत्तः-अकृतः, अङ्गारशकटिकायाः - अङ्गाराधान्याः, सेवायां शीतोपचारभूतायाम्, आदर:- अनुरागो यत्र कर्मणि तद् यथा स्यात्तथा, एवम्अष्टकेलिवापिकापङ्कजवनम् अद्रुष्टं तुषारपातेनादग्धम्, वायूपनीततरुणी कुचोष्मणा प्रतिबन्धादिति भावः, केलियापिकापङ्कजवनं यस्मिन् कर्मणि तद् यथा स्यात्तथेति सर्वमेतदनुपदवक्ष्यमाणक्रियाविशेषणपदम्, अवुः वान्ति स्म । “निशा निशीथिनी रात्रित्रियामा क्षणदा क्षपा" इति, प्रभजनो महावातो झञ्झावातः सदृष्टिकः" इति, “अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि " इति चामरः [ ६ ] । च पुनः, यस्यां नगर्याम्, वीथीगृहाणाम् आपणगृहाणामेव राजमार्गो भयपार्श्ववर्तिनाम्, राजपथातिक्रमः राजमार्गलङ्घनम्, न तु तत्रत्यजनानां राजपथस्य - राजशासनपद्धतेः, अतिक्रमः - अवहेलनम्, “आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्” इति विश्वः, दोलाक्रीडासु दोलाधिकरणकदोलनात्मक क्रीडाखेव, दिगन्तरयात्रा दोलनवशादेकस्या दिशोऽपरदिग्गमनम्, न तु राजदण्डवशादन्यदि‍ निष्काशनम्, पुनः राशा चन्द्रमसा कुमुदखण्डानां 4 तिलक०

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196