Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 162
________________ १२३ टिप्पनक-परागविकृतिसंवलिता महिमानमारोपयन्ति, एतच यद्यपि अनिमित्तबन्धुना परोपकारपराधीनमानसेन महात्मना तेन दिव्यपुरुषेण स्वागभूषणीकृतमाभरणमेकं दत्तम् , तथापि त्वदीयमेतत् , अतो न मे शरीरस्पर्शमर्हति, दिव्या हि मूर्तयो भाजनं दिव्याभरणानाम् , तेन तावक एव परिवारलोके भवतु कस्यचित्, अनुभवतु वाऽदृष्टोदयान्मनुष्य लोकमागतमपि पुननिदशलोकस्थितिसमुचितं शोभातिशयम्' इत्यभिधाय तं हाररत्नं देवतायाश्चरणयोः पुरस्तादमुञ्चत् [क]। अत्रान्तरे नितान्तभीषणो विशेषजनितस्फानिरास्फालिताशातटैः प्रतिफलद्भिरतिपरिस्फुटैः प्रतिशब्दकैः शब्दमयमिवादधानत्रिभुवनमुद्धान्तनयनतारकाकान्तिकर्बुरीकृतदिम्भिराकर्णितः सभयमुभयकर्णदत्तहस्ताभिरायतनदेवताभिः कुलिशताडितकुलाचलशिखरसमकालनिपतद्गण्डशैलनिवहनादोद्धुरो हासध्वनिरुदलसत् [ख] | उपश्रुत्य च तमश्नुतपूर्वमुर्वीपतिरुपजातविस्मयः पस्पर्श चेतसा कियन्तमपि हासम्, न तु स्वल्पमामपि संत्रासम् [ग] | अनुज्झितस्वभावावस्थितिश्च स्थित्वा मुहूर्तमुद्भूतकौतुकतदनुसारेण संचारयामास उन्नावयन्ति । च पुनः, यद्यपि, अनिमित्सबन्धुना अकारणबन्धुत्वमापनेन, परोपकारपराधीनमानसेन परोपकारेपरहिताचरणे, पराधीनं-परायणे मानसं यस्य तेन, महात्मना महानुभावेन, तेन प्रस्तुतेन, दिव्यपुरुषेण देवेन, खार. भूषणीकृतं खशरीरभूषणतामापादितम् , एतत् निकटस्थम् , एकम् , आभरणम् आभूषणम् , दत्तं समर्पितम् , तथाऽपि मह्यं दानेऽपि, एतत् , त्वदीयं त्वत्सम्बन्धि, वर्तत इति शेषः । अतः अस्मात् कारणात् , मे मम, शरीरस्पर्शम् अ. सम्पर्कम् , न अर्हति तदयोग्यमस्ति, एतदिति शेषः, हि यतः, दिव्याः स्वर्गीया एव, मूर्तयः शरीराणि दिव्याभर. णानां वर्गीयालङ्करणामाम् , भाजनं पात्रम् , तत्कृतशोभाऽऽस्पदमित्यर्थः, भवतीति शेषः, तेन तस्मात् कारणात् , तापक पव त्वदीय एव, परिवारलोके परिजनवर्ग, कस्यचित् कस्यापि, भवतु अस्तु, भूषणमिति शेषः, वा अथवा, अष्टोदयात् भाग्योदयात् , मनुष्यलोकं मर्त्यभुवनम् , आगतमपि अवतीर्णमपि, त्रिदशलोकस्थितिसमुचितं त्रिदशलोके-देवलोके, स्थितः, समुचित-योग्यम् , शोभातिशयं शोभाविशेषम् , अनुभवतु प्राप्नोतु, इति, अभिधाय उक्त्वा, देवतायाः लक्ष्मीदेव्याः, चरणयोः, पुरस्तात् अग्रे, तं देवार्पितम् , हाररत्नं हारश्रेष्ठम् , अमुञ्चत् अत्याक्षीत् [क]। . .अत्रान्तरे अस्मिन्नवसरे, हासध्वनिः हासकृतशब्दविशेषः, उदलसत् आविर्वभूव, स कीदृशः ? नितान्त. भीषणः अत्यन्तभयङ्करः, पुनः आस्फालिताऽऽशातटैः आस्फालितानि-सङ्घटितानि, आशातटानि-दिक्तटानि, यैस्तादृशः, फलद्भिः परितः प्रसरद्भिः, अतिपरिस्फुटः अत्यन्तव्यक्तैः, प्रतिशब्दैः प्रतिध्वनिभिः, विशेषजनितस्फातिर विशेषेणं-अतिशयेन, जनिता-उत्पादिता, स्फातिः-वृद्धिर्यस्य तादृशः, अत एव त्रिभुवनं खर्गमर्त्य-पाताललोकान् , शब्द. भयमिव शब्दपूर्णमिव. आदधानः कुर्वाणः. पुनः आयतनदेवताभिः मन्दिरदेवताभिः, सभयं भयपूर्वकम्, आकर्णितः श्रवणगोचरतामापादितः, कीदृशीभिस्ताभिः ? उद्धान्तनयनतारकाकान्तिकर्बुरीकृतदिग्भिः उद्धान्तामाम्-उद् अर्ध्व भ्रमणान्वितानाम् , नयनानां यास्तारकाः-कनीनिकाः, तासां कान्तिभिः छविभिः, कर्दुरीकृता:-चिनिताः, दिशो यांभिस्तादशीभिः, पुनः उभयकर्णदत्तहस्ताभिः उभयो:-द्वयोरपि कर्णयोः-श्रोत्रयोः, दत्तो-गभीरध्वनिकृताघातभयेन निवेशितो, हस्ती याभिः तादृशीभिः, पुनः कीदृशः कुलिशताडितकुलावलशिखरसमकालनिपतण्डशैलनिवहमादोद्धरः कुलिशेन-वज्रेण, ताडितानि-प्रहृतानि, यानि कुलाचलानां-महापर्वतानां शिखराणि, तत्समकालं-तैः सहेयर्थः, निपतता गण्डशैलानां-पर्वतच्युतस्थूलपाषाणानाम् , निवहस्य-समूहस्य, नाद इव-ध्वनिरिव, उबुरः- गम्भीरः, "गण्डशैलास्तु ध्युताः स्थूलोपला गिरेः" इस्यमरः [ख] । उर्वीपतिः मेघवाहननृपतिः, अश्रुतपूर्व पूर्वमश्रुतम् , तं वनिम्, उपश्रुत्य श्रवणगोचरीकृत्य, उपजातविस्मयः उत्पन्नार्यः सन् , चेतसा मनसा, कियन्तमपि कतिपयमपि, हास पस्पर्श स्पृष्टवान् , हसितवानित्यर्थः, स्वल्पमात्रमपि ईषदपि, संत्रासं भयं तु न, पस्पशेति शेषः [ग] च पुनः, अनुमितलभावस्थितिः अनुजिता-अत्यक्ता, सभावस्थितिः-खभावमर्यादा, येन सादृशः, मुहूर्त क्षणम् , स्थित्वा, उद्भूतकौतुका

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196