Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 157
________________ - १२१ तिलकमारी। वोपचारक्रियापराङ्मुखो भवितुम् , नापि यथाभिमतवस्तुप्रार्थनाविषयेणाभ्यर्थनेन कदर्थयितुम् , केवलमवलम्ब्य मध्यमं पन्थानमुपरचयामि तेऽञ्जलिम् , अनुगृहाण मां गृहाण मनःपरितोषाय मे मृपचन्द्र ! चन्द्रातपाभिधानं प्रधानमखिलानामपि स्वर्गभूषणानामासत्तिमात्रेणा प कृतसकलदुरितापहारं हारम् [ल]। एष किल पीयूषदानकृतार्थीकृतसकलार्थिसुरसार्थेन मथनविरतावन्धिना क्षीरोदेन प्रयत्नरक्षितात् प्रधानरत्नकोशादमृतसंभवशुक्तिगर्भप्रभवाण्यतिप्रभावन्ति परिणतामलकीफलस्थूलनिस्तलानि मुक्ताफलान्यादाय कौतुकेन स्वयं प्रथितः, कृतश्च स्वयंवरोत्सवानन्तरमसुरारिमन्दिरमाश्रयन्त्याः श्रियो मन्युगद्गदकण्ठेन कण्ठकाण्डमण्डनम् , देव्यापि कमलया कामकलिक्लान्तिहारी हरेरिति धृतो धृतिमत्या महान्तं कालम् , उपनीतश्च जन्मनि कुमारजयन्तस्य ज्येष्ठजायेति जातपुलकया पुलोमदुहितुः, तयापि परिरम्भविम्रमेषु निबिडपीडिताखण्डलोरस: सुरगजकुम्भपीठपृथुनो निजस्तनमण्डनस्य कृत्वातिदीर्घकालं मण्डनमर्पितः सखीप्रेमहतहृदयया मस्त्रियायाः सादृशलाघवमपि मन्दायते त्वदुपचारप्रवृत्तिनिरोधे औदासीन्यमालम्बत इत्यर्थः । अतः अस्मात् कारणात्, सर्वथा सर्व प्रकारेण, उपचारक्रियापरामुखः उपचारक्रियायां-त्वत्सेवात्मककार्य, परामुखः-उदासीनः, भवितुं न शक्नोमि । यथामिमतवस्तुप्रार्थनाविषयेण यथाभिमतं-यथाऽपेक्षम् , वस्तूनां-वराणाम् , या प्रार्थना तद्विषयेण, यथाऽभिमतं वरं प्रार्थयखेल्याकारकेणेत्यर्थः, अभ्यर्थनेन प्रार्थनेन कदर्थयितुं त्वां क्लेशयितुम् , अपि न शक्नोमि, किन्तु मध्यमं तयोर्मध्यवर्तिनम् , पन्थानं मार्गम् , अवलम्व्य, केवलं ते तुभ्यम्, अञ्जलिं पाणिपुटम् , उपरचयामि विरचयामि, हे नृपचन्द्र! नृपाणां मध्ये चन्द्रवदुज्वल | चन्द्रातपाभिधानं चन्द्रस्येवातपो द्युतिर्यस्येत्यन्यर्थतन्नामानम् , अखिलानामपि सर्वेषामपि, स्वर्गभूषणानां वर्गालङ्करणानाम् , प्रधानं श्रेष्ठम् , आसत्तिमात्रेण सान्निध्यमात्रेणापि, कृतसकलदुरितापहारं कृतः सकलानां दुरितानाम्-अभ्युदयप्रत्यूहानाम् , अपहारः-विध्वंसनं येन तादृशम् , इमं हारं रत्नमाल्यम् , मे मम, मनःपरितोषाय हृदयसन्तोषाय, गृहाण अङ्गीकुरु, तद्ब्रहणेन च माम् अनुगृहाण अनुगृहीतं कुरु [-] किल निश्चयेन, एष चन्द्रातपहारः, पीयूषदानकृताथीकृतसकलार्थिसुरसार्थन पीयूषदानेन-अमृतवितरणेन, कृतार्थीकृतः-परितोषितः, सकलानां-सर्वेषाम् , अर्थिनां-तत्प्रार्थिनाम् , सुराणा-देवानाम् , सार्थः-समूहो येन तादृशेन, क्षीरोदेन क्षीरसमुद्ररूपेण, मथनविरताधिना मथाद्-विलोउनाद्', विरतेन-निवृत्तेन, अधिना-समुद्रेण, प्रयत्नरक्षितात् प्रयोन-महता यत्नेन, रक्षितात् , प्रधानरत्नकोशात् मुख्यरत्नकोशसकाशात् , अमृतसम्भवशुक्तिगर्भप्रभवाणि अमृतसम्भवा-अमृतोत्पन्ना या शुक्तिः, तगर्भप्रभवाणि-तद्गर्भोद्भूतानि, अतिप्रभावन्ति अतिशयितकान्तिशालीनि, 'अतिमहाप्रभावाणि' इति पाठे तु अतिमहान्तः प्रभावा माहात्म्यानि येषां तादृशानि, पुनः परिणतामलकीफलस्थूलनिस्तलानि परिणतानि-परिपक्कानि. यानि आमलकीफलानि-धात्रीफलानि, तद्वत् स्थूलानि, निस्तलानि-वर्तुलानि च. मुक्ताफलानि, आदाय उद्धृत्य, कौतुकेन स्नेहातिशयेन, स्वयं खेनैव, प्रथितः गुम्फितः । च पुनः खयंवरोत्सवानन्तरं खयम्-आत्मनैव, वरः-पत्युवरणमिति स्वयंवरः, तदुत्सवानन्तरम् , असुरारिमन्दिरम् असुरारे:-विष्णोः, मन्दिरम् , आश्रयन्त्याः अधितिष्ठन्त्याः, श्रिया स्वप्रसूतलक्ष्म्याः, मन्युगद्गदकण्ठेन मन्युना-विश्लेषदुःखेन, गद्गदः-अव्यक्तस्वरः, यः कण्ठस्तेन, कण्ठकाण्डमण्डनं कण्ठकाण्डस्य-कण्ठनालस्य, मण्डनं भूषणम् , कृतः तद्भूषणरूपेण तत्र स्थापित इत्यर्थः । धृतिमत्या धैर्यवत्या, देव्या कमलया लक्ष्म्या अपि, हरेः विष्णोः, कामकेलिक्लान्तिहारीति कामकेलौ-रतिक्रीडायाम् , या क्लान्तिः-श्रान्तिः, तस्या हरणशील इति मत्वा, महान्तं दीर्घ कालं यावत् , धृतः स्वग्रीवायां परिहितः । च पुनः, पुलोमदुहितुः इन्द्राण्याः, कुमारजयन्तस्य जयन्तनानः कुमारस्य, जन्मनि जन्मोत्सवे, ज्येष्ठजायेति ज्येष्ठस्यखपत्युज्येष्ठधातुरिन्द्रस्य, भार्येति हेतोः, जातपुलकया आनन्दातिशयोद्भूतरोमाञ्चया, लक्ष्म्येति शेषः, उपनीतः तस्यै समर्पितः, इन्द्रस्य विष्णोश्च कश्यपात्मजत्वेन भ्रातृभावात् योरिन्द्रस्य ज्येष्ठत्वाच्च तस्या ज्येष्ठभार्यात्वं बोध्यम् । तया इन्द्राण्या अपि, परिरम्भविभ्रमेषु आलिङ्गनकेलिषु, निविडपीडिताखण्डलोरसः निबिडम्-अत्यन्तं यथा स्यात् तथा, पीडितंमर्दितम् , आखण्डलस्य-इन्द्रस्य, उरः-वक्षःस्थलं येन तादृशस्य, सुरगजकुम्भपीठपृथुनः सुरगजस्य-ऐरावतस्य, यः पाठ:-मूर्धस्थलम् , तद्वत् पृथुन:-स्थूलस्य, मिजस्तनमण्डलस्य मण्डलाकारस्वस्तनद्वन्वस्य, अतिदीर्घकालम् १६ तिलक.

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196