Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 104
________________ ६८ टिप्पनक- परागविवृतिसंवलिता पदानां विग्रहः, तिमीनां गलग्रहः, गूढचतुर्थकानां पादाकृष्टयः, कुकविकाव्येषु यतिभ्रंशदर्शनम्, उदधीनामवृद्धिः, निधुवनक्रीडासु वर्जनताडनानि, द्विजातिक्रियाणां शाखोद्धरणम्, बौद्धानामनुपलब्धेरसद्व्यवहारप्रव-र्तकत्वम्, प्रतिपक्षक्षयोद्यतमुनिकथासु कुशास्त्रश्रवणम्, शारीणामक्षप्रसरणदोषेण परस्परं बन्धव्यधमारणानि, मर्दन पीडा च दिवि आकाशे, अग्रहणं दिव्यग्रहणं शुद्धिकरणं च विग्रहः समासवाक्यं संग्रामश्च, गलेन- मांस:खण्डेन ग्रहः-ग्रहणम्, गलामोटिका च पादाकृष्टयः पादाकर्षणानि पादच्छेदाश्व, यतिः - विरतिर्मुनयश्च, अवृद्धिः जलवृद्धिः, समृद्ध्यभावश्च, तर्जना-निर्भर्त्सना, घातान् ( ? ) [ ताडनानि - आघाताः ] शाखा अध्ययनविशेषः साहुली च, असदुद्व्यवहारः असदिति ज्ञानम् असन्निति शब्द इत्यादिकोऽ शिष्टाचारश्व, कुशास्त्रश्रवणं दर्भशस्त्रकर्णनं कुत्सितशास्त्रश्रवणं च अक्षाः - पाशका इन्द्रियाणि च बन्ध-व्यध - मारणानि बन्धन-ताडन- घातनानि द्रव्यं - पृथिव्यादि नम्, बभूव, न तु तत्प्रजानां केनचित् क्लेशनम् । पक्षिणां शुकादीनामेव, दिवोऽयं दिव्य आकाशप्रदेशः, तद्ब्रहणं तदाश्रयणम्, यद्वा दिवि आकाशे, अग्रहणम् - उड्डीयमानानामन्येन अनिग्रहो बभूव, न तु केनापि कस्यापि दिव्यस्य - दिवि भवस्य सुवर्णादे• वैस्तुनो हरणम्, यद्वा अभ्यादिदिव्यग्रहणेन सत्यतापरीक्षणम् । पदानां कृदन्त-तद्वितान्तादिप्रकृतिकविभक्त्यन्तानामेव, विग्रहः वृत्त्यर्थंप्रतिपादकं वाक्यम्, बभूव, न तु लोकानां विग्रहः युद्धम् । तिमीनां तत्संज्ञकमत्स्यविशेषाणामेव, "अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः । तिमिङ्गिलगिलोऽप्यस्ति तद्विलोऽप्यस्ति राघव ” इत्युक्तानाम्, गलग्रहः तिमिलनाना मत्स्येन तदधिकबलवता कण्ठकवलनम्, बभूव, न तु केनचिन्मनुष्येण कस्यचिन्मनुष्यस्य गलामोटिका सर्वेषां सौहार्दसत्त्वात् । गूढचतुर्थकानां गूढः - अप्रकटितः, चतुर्थः चतुर्थपादो येषां तादृशानां श्लोकानामेव पादाकृष्टिः - श्रुतपादत्रयानुगुण्येन चतुर्थपादस्य आकर्षणम् - मनसा प्रकल्प्य योजनम्, बभूव, न तु चोरयित्वा कस्यचिज्जनस्य पलायमानस्य केनचित् पादयोराकर्षम् । कुकविकाव्येषु कुत्सितकवि प्रणीत काव्येष्वेव, यतिभ्रंशदर्शनं विरतिभङ्गाख्यकाव्यदोषोपलब्धिर्बभूव, न तु यतीनां -मुनीनाम्, भ्रंशस्य - चारित्रच्युतेः दर्शनम् । उदधीनां समुद्राणामेव, अवृद्धिः क्षयपक्षे हानिः, यद्वा अपां-जलानाम्, ऋद्धिः-समृद्धिः, अबृद्धिः, वबयोरैक्याद् अवृद्धि: - जलसमृद्धिः, बभूव, न त्वत्र कस्यापि जनस्य अवृद्धिः हानिः । निधुवनक्रीडासु नितरां धुवनं - गात्रकम्पनं यासु तासु क्रीडासु, सुरतक्रीडासु, “मैथुनं निधुवनं रतम्” इत्यमरः, तर्जनताडनानि तर्जनानि - प्रतिकूलान् प्रति भर्त्सनानि, ताडनानि - उरःस्थले हस्ताघाताश्च बभूवुः, न त्वन्यकर्मणि तर्जनानि-कटुवचनानि, ताडनानि-दण्डादिनाऽऽघाताः । द्विजातिक्रियासु द्वे जाती उत्पत्ती सामान्यविशेषभावेन येषां ते द्विजातयो ब्राह्मणादयः, तदुक्तम्-"जन्मना जायते शूद्रः संस्काराद् द्विज उच्यते" इति तेषां क्रियासु-अध्ययनादिकर्मसु शाखोद्धरणं शाखानां माध्यन्दिनादीनां वेदैकदेशानाम्, उद्धरणं तदध्येयत्वेन व्यवस्थापनम् बभूव, न तु शाखानां - वृक्षावयवानाम्, उद्धरणम्-उच्छेदनम् । बौद्धानां बुद्धोपासकानामेव, अनुपलब्धेः - प्रत्यक्षेण वस्तूनामनुपलभ्यस्यैव, असद्व्यवहारप्रवर्तकत्वम् असदिति यो व्यवहारस्तत्प्रयोजकत्वम्, तन्नये प्रमाणान्तराभावेन प्रत्यक्षेणोपलब्ध्यनुपलब्धिभ्यामेव वस्तूनां सत्त्वा सत्त्वावगमादित्यर्थः, न तु कस्यचिदसमीचीन व्यवहारजनकत्वम् । परपक्षक्षयोद्यतमुनिकथासु परपक्षाणां विपरीतमतानाम्, क्षये - खण्डने, उद्यताः - लग्नाः, ये मुनयस्तेषां कथासु-तत्प्रणीतकथाखेव यद्वा परपक्षक्षयोद्यतासु मुनिकथाखेव, कुशास्त्रश्रवणं कुशास्त्रस्य - खण्डनीयतयोपन्यस्तस्य कुत्सितशास्त्रस्य यद्वा परपक्षः - अधार्मिकवर्गः, तस्य क्षये विनाशे, उद्यान - प्रयत्नवताम्, मुनीनां कथासु - चरित्रेषु, कुशास्त्रस्य - तपोबलोपबृंहितस्य दर्भमयस्य अस्त्रस्य श्रवणं बभूव, न त्वन्यत्र कुशास्त्रश्रवणं कुशास्त्रस्य - अपमार्गोपदेशक शास्त्रस्य, दर्भवद्दुर्बलस्यास्त्रस्य वा श्रवणम्, यद्वा कोः पृथिव्याः शास्ता कुशास्ता, तस्याऽश्रवणम्, अपि तु सर्वत्र तच्छ्रवणमेव । शारीणाम् अक्षाणामेव, अक्षप्रसरदोषेण पाशकप्रतिकूल प्रचलन दोषेण, परस्परं बन्ध-व्यध-मारणानि बन्धः - गमनप्रतिबन्धः, व्यधः - प्रत्यावर्तनम्, मारणं द्यूताधारपट्टान्निष्काशनम्, न तु अक्षप्रसरदोषेण इन्द्रियसचारदोषेण, केषाञ्चिद् बन्धः - बन्धनम् व्यधः - ताडनम्, मारणं विषभोजनादिद्वारा व्यापादनं च बभूव,

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196