Book Title: Tilakamanjiri Part 1
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 136
________________ टिप्पनक-परागविवृतिसंवलिता पात्रकृतोपकारतया कृतार्थमात्मानं मन्यमानस्तूष्णीक एव क्षणमात्र स्थित्वा किश्चिदलितकन्धरो भर्तुः पृष्ठभागे समुपविष्टां विनयनिभृतवपुषं प्रहर्षनिर्भरां मदिरावती प्रसादाया दृष्टया सुचिरमवलोक्य सस्मितमवादीत् 'राजपुत्रि ! निवर्तितस्तावदरण्यगमनादेष ते प्रणयी जनः, नियोजितश्चातिदुष्करे देवताराधनकर्मणि, मा स्म कुप्यश्चेतसि यदस्माभिरकृत्या प्रश्नमश्नुत्या प्रतिवचनमगृहीत्वाऽनुमतिं महाभागायाः कृतास्य चेतसो नियश्रणा, निवारणा च विषयोपभोगसुखानाम् , अत्र च भवत्कल्याणसम्पादनसत्वरा चित्तवृत्तिरेवापराध्यति, न बुद्धिः । कल्पश्चायं यतोऽस्य कतिचिद् दिनानि दूरस्थितयैव कल्याणभागिन्या सर्वापि कर्तव्या भर्तृजनोचिता प्रतिपत्तिः, तथाहि-आत्मा निवारणीयो धृत्या न वृत्त्या, स्वभावस्निग्धयोपसर्पणीयो दृष्ट्या न काययष्टया, सम्भाषयितव्यो मनसा न वचसा, प्रेषयितव्याः शरीरवार्तापलम्भाय सख्यश्चतुरवर्णरेखा नानङ्गलेखाः, बहु मन्तव्यमवस्थानं विरलपरिजने देवतायतनवने न रतिभवने, श्रावयितव्यः श्रवणहारीणि देवतास्तुति टिप्पनकम्-मागधी-नग्नाचार्यभार्या । कण्टकिनि कण्टकयुक्ते, रोमाञ्चिते च [ज] । तृप्तमनाः, मुनिः, पात्रकृतोपकारतया पात्रे-योग्यजने, कृत उपकारो येन तादृशतया, आत्मानं कृतार्थ कृतकृत्यम् , मन्यमानः, तूषणीक एव गृहीतमौन एव, क्षणमान स्थित्वा, किञ्चिदलितकन्धरः किञ्चिद्-ईषद्, वलिता-चलिता, तिर्यग्भूतेत्यर्थः, कन्धरा-ग्रीवा यस्य तादृशः सन् ,भर्तुः पत्युः, मेघवाहननृपतेरिति यावत् , पृष्ठभागे पश्चाद्भागे, समुपविष्टां सम्यगासिताम् , बिनयनिभृतवपुषं विनयनिश्चलशरीराम , प्रहर्षनिर्भर प्रहर्षेण-प्रकृष्टहर्षेण, निर्भरा-पूर्णम् , मदिरावती तत्संज्ञकराज्ञीम्, प्रसादाया प्रसादेन-प्रसन्नतया, आर्द्रया-सरसया, दृष्टया, सुचिरं सुदीर्घकालम् , अवलोक्य निरीक्ष्य, सस्मितम् ईषद्धासान्वितं यथा स्यात्तथा, अवादीत् वक्ष्यमाणरीत्या अवोचत् । किमित्याह-राजपुत्रि! राजकन्ये!, ते तव, एष, प्रणयी प्रियो जनः, तापदिति वाक्यालङ्कारे, अरण्यगमनात् वनगमनात्, निवर्तितः निवारितः। च पुनः, अतिदुष्करे अतिदुस्सम्पादे, देवताराधनकर्मणि देवार्चनकार्ये, नियोजितः प्रवर्तितः, चेतसि मनसि, मा स्म कुप्यः न कोपं कुरु, यत् यस्मात् , अस्माभिः, प्रश्नमकृत्वा वामपृष्त्यर्थः, महाभागाया: महानुभावाया भवत्याः, प्रतिवचनम् उत्तरवाक्यम् , अश्रुत्वा, अनुमति सम्मतिम् , अगृहीत्वा अप्राप्य, अस्य तव पत्युः, चेतसः मनसः, नियन्त्रणा अरण्यगमन प्रतिबन्धः, विषयोपभोगसुखानां विषयाः-चक्षुरादीन्द्रियगोचरा रूप-रस-गन्धस्पर्श-शब्दाः, तेषामुपभोगः-तत्तदिन्द्रियेणानुभवः, तज्जन्यसुखानाम् , निवारणा च कृता विहिता । अत्र च अस्मिंस्तु, वनगमनादिसमर्थनकार्ये, भवकल्याणसम्पादनसत्वरा भवत्याः, कल्याणस्य-शुभस्य, सम्पादने-साधने, सत्वराक्षिप्रकारिणी, चित्तवत्तिरेव मदीयमनोवृत्तिरेव, अपराध्यति निवारणात्मकमपराधं करोति, न तु बद्धि मडीयमत्या तु सुखसाध्यकार्यापेक्षया कष्टसाध्यकार्यस्यैव फलसिद्धौ श्रेष्ठत्वसमर्थनात् । कल्पश्च देवतार्चनस्य विधिश्च, अयं विषयोपभोगसुखनिवारणाचारः, “कल्पे विधि-क्रमौ” इत्यमरः, यतः यस्माद्धेतोः, कतिचिहिनानि कतिपयदिवसान् , कल्याणभागिन्या सौभाग्यशालिन्या भवत्या, दूरस्थितयैव दूरत एव, अस्य स्खभर्तुः, भर्तृजनोचिता भर्तृयोग्या, प्रतिपत्तिः सत्किया, शुश्रूषेत्यर्थः, कर्तव्या विधातव्या, न तु समीपतः, तथा सति मनोविक्षेपापत्तेः । कथमित्याह तथाहि, आत्मा खः, धृत्या धैर्येण, तुष्ट्या वा हेतुना, निवारणीयः भर्तुावर्तनीयः, न तु वृत्य। तदुचितनिजाचरणेन सह, तवुचिताचारस्य दूरतोऽपि रक्षणसम्भवात् । स्वभावस्निग्धया नैसर्गिकस्नेहाईया, दृष्ट्या दृष्टिद्वारा, आत्मा, उपसर्पणीय: पतिपार्थ प्रेषणीयः, न तु स्वभावस्निग्धया प्रकृतिकोमलया, काययष्ट्या यष्टिवत्कृशकायद्वारा । मनसा मनोवृत्तिभूतया भर्तृचरणप्रीत्यैव, आत्मा, सम्भावयितव्यः सम्माननीयः, न तु वचसा भर्ता सह वाखिलासेन शरीरवातोपलम्भाय, तदीयवास्थ्यसमाचारबोधाय, चतरवर्णरेखा: मनोगतार्थसङ्केतनकुशलाक्षरपद्भिरूपा एव, सख्या, प्रेषयितव्या: प्रेषणाहीः, न तु चतुरः-पुरुषान्तःकरणहरणनिपुणः वर्ण:-गारवर्णः, रेखा-कपोलपत्र रचनादिचिहं च यासां तादृश्यः, अनङ्गलेखाः वेश्यारूपाः सख्यः, तासां मनोमादकत्वात् , "वेश्यायां तु खगालिका, वारवामिः कामलेखा क्षुद्रा" इत्यंभ्यत्रोक्तः । विरलपरिजने विरलाः खल्याः, परिजनाः-पान्धवजना यस्मिन् तादृशे, देवतायतनपने देवताधिष्ठितवने, अवस्थानं

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196