Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra शतकम् 1 www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir किं १३ कहहिं १४ कस्स १५ कहिं १६, केसु १७ कहं १८ किच्चिरं हवइ कालं २६ । क २० संतर २१ मविरहिअं २२, भवा २३ गरिस २४ फासण २५ णिरुत्ती २६ ॥ १३ ॥ ( युग्मम् ) व्याख्या - चानयोः संक्षेपतोऽनुयोगद्वारवृत्तितः विस्तरतस्तु आवश्यक नियुक्ति तद्वृत्तिभ्यामेवेत्यनुयोगद्वारवृत्तावपीत्थमेव भणितं । तत्रोपोद्घातनिर्युक्तिरावश्यक नियुक्त्यन्तर्गता सर्वत्राप्यतिदेशेन वक्तव्या । परमिह सर्वसूत्रसाधारणत्वपरिज्ञानाय द्वार - विवेकपरिज्ञानमात्रहेतुः किंचिद् व्याख्यानं यथा उद्देशन मुद्देशः-सामान्याभिधानरूपो यथाध्ययनमित्यादिरूपेण वक्तव्य इति क्रिया सर्वत्रापि मन्तव्या १ । तथा निर्देशनं निर्देशः - विशेषाभिधानं, यथा सामायिकमित्यादि । तथा निर्गमनं निर्गमः कुतः सामायिकं निर्गतमिति‍ । तथा तौ क्षेत्रकालौ च ययोः सामाकिमुत्पन्नं, तौ च वक्तव्यौ ४ - ५ । कुतः पुरुषान्निर्गतमिति ६ । तथा केन कारणेन गौतमादयो भगवत्समीपे श्रृण्वन्तीति ७ । तथा प्रत्ययः केन प्रत्ययेन भगवतेदमुपदिष्टं ८ । तथा लक्षणंसम्यक्त्व सामायिकादीनां स्वरूपभणनं । तथा नया नैगमादय: १० । तथा समवतारः - यो नयो यत्र समवतरति ११ । तथानुमतं - कस्य व्यवहारादेः किं सामायिकमनुमतं १ १२, । किं सामायिकं कस्मिन् प्रत्यवतर्ति ? १३ । कतिविधमिति १४ । कस्य सामायिक १५ । क्व सामायिकं १६ । तथा केषु For Private And Personal Use Only १३

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122