Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 110
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। अनन्तश एव सञ्जातं । तत्तथैव-तेनैवप्रकारेण पुनरनन्तश एव भविष्यति । यदागमः-००००००० एतच्च 'सिं'ति । तेषामभव्यानां न सम्भवति, येन कारणेन ते-अभव्याः, स्तोकाः-परिमिताः, सम्यक्त्वप्रतिपतितानामनन्ततमभागवर्तित्वात् । तेषां चानाद्यपर्यवसितं व्यवहारित्वभवनं न सम्भवति । अत एव ते अभव्या न व्यवहारिणो, नाप्यव्यवहारिणो। किन्तु व्यवहारित्वादिव्यपदेशबाह या इति तात्पर्यमिति गाथार्थः ॥ ८९ ॥ __ अथाऽभव्यानां मिथ्यात्वं किं कीदृशं भवति ? इति दर्शयतिमिच्छत्तं पुण तेसि, अणभोगं मंदमवि अ अणवरयं । तिव्वं पि संसयाई, ण होइ जं साइसंतं च ॥६॥ ___व्याख्या-मिथ्यात्वं पुनस्तेषामभव्यानामुपलक्षणाद् भव्यानामप्यव्यवहारिणां च मन्दमप्यनवरतं-सर्वकालीनं निरन्तरमनाभोगमेव मिथ्यात्वं भवति । तस्यैव अनाद्यपर्यवसितत्वात् । सांशयिकादिकं च तीवमपि तेषां न भवति । तत्र हेतुमाहयद्-यस्मात्, व्यक्तमिथ्यात्वं सादि-आदिमत्, सान्तं च-सपर्यवसितं च, तचाभव्यानां न सम्भवति, किन्तु भव्यानामेवेति तात्पर्यम् । एतेनोत्कटमिथ्यात्वमनाभोगरूपमेव, अनन्तपुद्गलपरावर्तसंसारस्थितिहेतुत्वादिति मुग्धकल्पनापि परास्ता । अनाभोगमिथ्यात्वस्य संसारस्थितिहेतुत्वाभावात् । नयव्यवहारिणो जीवा अनाभोगमिथ्यात्वेन संसारस्थितिभाजो भवन्ति, सत्यप्यनाभोगे व्यवहारित्वभवनात् । अत एवानाभोगमिथ्यात्वस्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122