Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शतकम् ।
१०५
वस्तु, निर्णयति इदमित्थमेव भावीति निर्णयं भणति, न पुनरितरदप्यनियतमपि अनवश्यभाव्यपि । एवमुक्तप्रकारेण तन्मते - नागपुरीयलौम्पकमते, मूलप्ररूपणा - प्रक्रिया रूपत्वेनाऽऽदिप्ररूपणा, कुतः १, पापकर्मोदयात् तीव्रमिथ्यात्वमोहनीय कर्मोदयात् । तत्कथं ? इति चेद्, उच्यते यदि सर्वज्ञः कथमनियतं न निर्णयति ? यदि च न नियति कथं सर्वज्ञ १ इति वचनविरोधं, अहं मौनीत्यादिवन्न जानातीति गाथार्थः ॥ ९३ ॥
।
अथोक्तप्रकारेण न वाणोऽपि जिनो यथा सर्वज्ञो भवति
9
न भवति च, तथा दर्शयन्नाह
जर णिअयमणिअयं वा, एगसहावेण सव्वया हुज्जा । ता अरिहा सव्वण्ण, अण्णह णिअमाण सव्वन्नू ॥ ९४ ॥
व्याख्या - यदि नियतमनियतं वा वस्तु एकस्वभावेन सर्वदा सर्वकालं भवेत्, 'ता' - तर्हि, अर्हन् सर्वज्ञो भवेत्, याथार्थेन परिज्ञानात् । अन्यथा यदि च कदाचिदप्यनियतं सन्नियतं भवेत्, तर्हि तदपरिज्ञानात् सर्वज्ञो न भवेत् नियमात् निश्चयेन, भूतानां भाविनां (भवतां ) भूयमानानां च पदार्थानामेकतरस्याप्यज्ञाने सर्वज्ञत्वहानिस्तवापि सम्मति गाथार्थः ॥ ९४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
-~
«
अथायुरधिकृत्य तदीयकल्पनामाहणिरुवकमसोवकम-मेएहिं दुविहमाअं होइ | पढमं णिअयमणिअयं, बियंति विगप्पिअं तेण ॥ ९५ ॥ व्याख्या- निरुपक्रमसोपक्रमलक्षणौ यौ भेदौ, अर्थाद्विशेषणभूतौ, ताभ्यामायुर्द्विविधं भवति - निरुपकमायुः सोपक्रमायुश्चेति ।
For Private And Personal Use Only

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122