Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकम्। १०६ काल-णय-कारणाणं, भिण्णाभिण्णस्सरूवममुणंतो। अविरोहं पि वइज्जा, विरोहमण्णाणमाहप्पा ।। १०२ ।। व्याख्या-कालश्च नयाश्च कारणानि चेतीतरेतरद्वन्द्वः । तेषां भिन्नाभिन्नस्वरूपमजानानः-कालादीनां भेदेनाभेदेन च वस्तूनां स्वरूपं भिन्नं भवति नवेति परिज्ञानशून्य इत्यर्थः । अविरोधमपि विरोधं वदेत् । कुतोऽज्ञानमाहात्म्यात्-मिथ्यात्वमोहनीयोदयसहकृतं यदज्ञानं तद्विपरीतावबोधेन कुत्सितज्ञानमज्ञानं, नञः कुत्सार्थत्वात्, ततः । अत एव क्रोधादिसर्वपापादज्ञानं महापापं । यदुक्तं 'अज्ञानं खल भो कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः । यस्माद्वितमहितं वा, न वेत्ति येनाऽऽवृतो लोकः ॥ १ ॥ इति । अयं भावः-कालनयकारणानां भिन्नत्वेन सामान्याधिकरण्येऽपि न विरोधः, तथाहि कालभेदेन शीतोष्णस्पर्शयोरपि सामान्याधिकरण्यं भवत्येव । य एव तामसाः परमाणवः, त एव तेजस्तया परिणमन्ते । य एव तेजसाः परमाणवस्त एवं तमस्तया परिणमन्ते इति वचनात् । तत्र तामसाः परमाणवः शीतलाः, तेजसाश्चोष्णाः इति सर्वसम्मतं । एककालीनयोस्तु शीतोष्णस्पर्शयोः सामानाधिकरण्यं न भवत्येव, कालभेदजन्यं परिणामान्तरमन्तरेण विरोधात् । तथा नयभेदेन विरोधाभावो, यथा-यदेव वस्तु द्रव्यार्थिकनयापेक्षया नित्यं, तदेव पर्यायार्थिकनयापेक्षया अनित्यं, सर्वेषामपि पदार्थानां द्रव्यत्वेन तादवस्थ्येऽपि पर्यायाणां प्रतिसमयं भिन्नत्वात । अत एव जैनानां दीपा WHH For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122